पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
148
[अयोध्याकाण्डः
कैकेय्युपालम्भः

 [१]सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः ।
 सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥ ७ ॥
 सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः ।
 स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम ! ॥ ८ ॥

 एकपदं-एकवाक्यत्वलक्षणं सत्यमेव ब्रह्म । सत्यमेवावलम्ब्य परं पदं प्राप्यते । यदेवं अतस्सत्यमेवानुवर्तस्व ॥ ८ ॥

 [२][३]स धर्मस्याभिकामार्थं मम चैवाभिचोदनात् ।
 प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ ९ ॥

 परमं कर्तव्यं सिद्धान्तन्यायोपेतमाह-स धर्मस्थेत्यादि । स त्वं त्वल्लोकसिद्धिप्रयोजनकस्य धर्मस्यैव, अभिकामार्थं-पालनार्थं क्रियमाणान्ममाभिचोदनात्-नियोगात् सुतं रामं प्रव्राजय। एवं त्वामहं खलु त्रिर्ब्रवीमि । अतो नाहमस्मात्स्ववरग्रहात्सर्वथा निवर्तय इति शेषः ॥

 समयं च [४]ममार्येमं यदि त्वं न करिष्यसि ।
 अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ १० ॥

 विपक्षे स्त्रीवधदोषश्चाधिकस्ते पतिष्यतीत्याह-समयं चेत्यादि । परित्यक्ता–उपेक्षिता, त्वयेति शेषः ॥ १० ॥

 एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया ।
 नाशकत् पाशमुन्मोक्तुं [५]बलिरिन्द्रकृतं यथा ॥ ११ ॥


  1. एकपदं-प्रणवरूपैकपदवाच्यत्वात् प्रणवरूपं ब्रह्म-ति । एकं-मुख्यं, पदं-पद्यत इति पदं परमप्राप्यं ब्रह्म यद्वा–एकं पदं प्रणवरूपं वाचकं यस्य तत्तथा । ओमित्येकाक्षरं ब्रह्म' इत्यादिस्मृतेः-गो.
  2. अभिकामार्थं प्रीत्यर्थं-धर्माभिवृध्यर्थमिति यावत्-गो.
  3. धर्मस्यैवाभि, धर्मस्य हित-ङ. च.
  4. ममाद्येमं-ङ.झ.
  5. उपेन्द्रद्वारा इन्द्रकृतं-गो.