पुटमेतत् सुपुष्टितम्
१४ सर्गः]
147
नो चेत् ते पुरतोऽद्यैव परित्यक्ष्यामि जीवितम्
पापं [१]कृत्वेव किमिदं मम संश्रुत्य संश्रवम् ।
शेष क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ २ ॥
मम संश्रवं-वरदानप्रतिज्ञां संश्रुत्य-अङ्गीकृत्य तदकरणरूपं पापं कृत्वेव-कृत्वैव सन्नः-अवसन्नः क्षितितले शेष इति किमिदं-न किमपि प्रयोजनम् । अतः स्थित्यां- सत्यपरिपालनमर्यादायां स्थातुं त्वमर्हसि । न त्वन्यायतः सत्यपरिपालने प्राणसंशयो युक्त इति भावः ॥ २ ॥
आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः।
सत्यं संश्रुत्य हि मया त्वं च धर्मे प्रचोदितः ॥ ३ ॥
सत्यपरिपालने प्राणसंशये जाते प्राणादपि सत्यमेव रक्षणीयमिति सदृष्टान्तमाह-सत्यं संश्रुत्येत्यादि । गतार्थम् ॥ ३ ॥
सरितां पतिः सत्यमनु-सत्यमनुवाप्य सूक्ष्मां सत्यस्य मर्यादां इतः प्राप्तस्सन् सत्यानुरोधात्-सत्यपरिपालनहेतोरेव स्वां वेलां-तीरं[६] स्वं समयं-प्रतिज्ञां च नातिवर्तते ॥ ६ ॥
- ↑ अत्र-इवशब्द एवार्थे, गोविन्दराजीये तु 'कृत्वैव' इत्येव पाठः
- ↑ याच्यमानः-ङ.
- ↑ उद्धृत्य सुमना-ङ.
- ↑ सत्यमन्वितः-सत्यं प्राप्त सस्यानुरोधात्-सस्यस्थापभयात्, स्वस्थां मर्यादां सुलयामपि वेलां समये चन्द्रोदयरूपे वृद्धिसमयेऽपि नातिवर्तते-ति.
- ↑ सत्यसम्मितः-ङ.
- ↑ 'स्वां' इति पुलिङ्गान्ततया परिणतमाकृष्टमस्य विशेषणम्