पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
146
[अयोध्याकाण्डः
कैकेय्युपालम्भः

 इतीव राज्ञो व्यथितस्य सा निशा
  जगाम घोरं श्वसतो मनस्विनः ।
 विबोध्यमानः प्रतिबोधनं तदा
  निवारयामास स राजसत्तमः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रयोदशः सर्गः


 श्वसत इति । दीर्घमुष्णं विनिश्वसत इति यावत् । विबोध्यमानः-सूतभागधवन्दिभिर्वादित्रोपतैरिति शेषः । प्रतिबोधनं निवारयामासेति । तादृग्व्यवहारस्य दुःखानहत्वादेव । अचिर (२६१/२) मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रयोदशः सर्गः



चतुर्दशः सर्गः
[कैकेय्युपालम्भः]

 पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि ।
 [१]विवेष्टमानमुद्वीक्ष्य[२] सैक्ष्वाकमिदमब्रवीत् ॥ १ ॥

 अथैवंदशेऽपि राजनि केकेयी मान्नमित्ततो राजा वा म्रियतां, तन्निमित्ततोऽहं वा म्रिये इति सर्वथा निश्चिनोति । पुत्रेति ॥ १ ॥


  1. विचेष्टमानमिति कुत्रचित्पाठः । तदा विशब्दो विप्रियमित्यादाविव नञर्थः । अचेष्टमानमित्यर्थः-स.
  2. ऐक्ष्वाक-ङ.च.