पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३ सर्गः]
145
एवं रुदन्तं सा प्राह राजन् ! देहि वरद्वयम्

 मम रामस्य लोकस्य गुरूणां भरतस्य च ॥ २३ ॥
 प्रियमेतद्गुरुश्रोणि ! कुरु चारुमुखेक्षणे !

 गुर्वी श्रोणिः यस्याः सा तथा ॥ २३ ॥

 विशुद्धभावस्य हि दुष्टभावा
  [१]ताम्रेक्षणास्याश्रुकलस्य राज्ञः ।
 श्रुत्वा विचित्रं करुणं विलापं
  भर्तुर्नृशंसा न चकार वाक्यम् ॥ २४ ॥

 अश्रुकलः-अश्रुपूर्णः कलिः-कामधेनुः ॥ २४ ॥

 ततः स राजा [२]पुनरेव मूर्छितः
  [३][४]प्रियामदुष्टां प्रतिकूलभाषिणीम् ।
 समीक्ष्य पुत्रस्य विवासनं प्रति
  क्षितौ विसंज्ञो निपपात दुःखितः ॥ २५ ॥

 ततस्स इत्यादि । तद्रात्रेः प्राक् नित्यमदुष्टां-पतिव्रतां, तत्काले दैवात्प्रतिकूलभाषिणी तां समीक्ष्य पुत्रस्य विवासनं प्रतिक्रियमाणं [५]तद्वचनं च वीक्ष्य चिरपरिचितप्रेमत्वात् तां धिक्कर्तुं, अतिप्रयासलब्धमुगुण[६]पुत्रत्वात्तं च त्यक्तुमशक्लान् कर्तव्यमूढो मूर्छितः क्षितौ निस्संज्ञः पपात ॥ २५ ॥


  1. ताम्रेक्षणस्य । दुःखानिशयेनेति शेषः-गो.
  2. भयमोहमूर्च्छितः-ङ.
  3. अतुष्टां इति तिलके पाठः । एतावदुक्त्यापि अतुष्टां रामाववासने बद्धश्रद्धामिति यावत् । वस्तुतस्तु-अदुष्टामित्येव स्वरसः पाठः । तस्या धिक्करणहेत्वभावोऽनेनोक्त: । मया प्रतिज्ञातं वरं खलु याचते सा,अतः कथं सा दुष्टा, प्रत्युत तदुल्लंबने अहमेव दुष्टः स्यामिति सत्यपाशबद्धस्य राज्ञ आशयः ।
  4. प्रियामतुष्टां-ङ. च. झ.
  5. तद्वरं-घ.
  6. पुत्ररत्नं-घ.