पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
144
[अयोध्याकाण्डः
दशरथविलापः

 नृशंसां कैकयीं द्रष्टुं यत्कृते व्यसनं महत् ।

 अथवा गम्यतां शीघ्रमिति । रात्रिरिति शेषः । स्त्रीदर्शनं रात्रावेव भवति । तदत्यये प्रजा आयान्ति राज्ञः सकाशम् । अतोऽस्यास्तु दर्शनपरिहारो भविष्यतीत्याशयः ॥ १८ ॥

 एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः ॥ १९ ॥
 प्रसादयामास पुनः कैकेयीं चेदमब्रवीत् ।
 साधु[१]वृत्तस्य दीनस्य [२] त्वद्गतस्य गतायुषः ॥ २० ॥
 प्रसादः क्रियतां भद्रे ! देवि ! राज्ञो विशेषतः ।

 त्वद्गतस्येति । सत्यवशात् त्वद्वशगस्येत्यर्थः ॥ २० ॥

 [३]शून्येन खलु सुश्रोणि ! मयेदं [४]समुदाहृतम् ॥ २१ ॥
 कुरु साधुप्रसादं मे बाले ! सहृदया ह्यसि ।

 शून्येनेति । प्रणष्टसर्वाहंभावेनेति यावत् ॥ २१ ॥

 प्रसीद देवि ! [५]रामो मे त्वद्दत्तं राज्यमव्ययम् ॥ २२ ॥
 लभतामसितापाङ्गे ! यशः पर[६]मवाप्स्यसि ।

 तदेव दर्शयन्नाह-त्वद्दत्तमिति । त्वया वरबलाद्गृहीतमेव राज्यं मत्प्रीत्यर्थं रामाय देहीत्यर्थः ॥ २२ ॥


  1. वृद्धस्य-ड.
  2. त्वद्गतस्य-त्वदेकशरणस्येत्यर्थः-गो. गतायुषः-अल्पावशेषमदीतायुषः । गत-प्रायायुष इति वा.
  3. शून्ये-निर्जनप्रदेशे “शून्यं बिन्दौ च निर्जने " इति हैमः । इदं रामाभिषेचनं रहसि न समुदाहृतम् । अपि तु सर्वजनसन्निधावित्यर्थः-गो. ति. यद्वा शून्येन-दीनेन मया । यद्वा-त्वद्गतस्थेत्युक्तरीत्या गस्थन्तरशून्येनेत्यर्थः । यद्वा-शून्ये-दयादिगुणशून्ये समुदाहृतम् । न ह्यरण्यरुदितं कृतं, अपि तु गुणवस्येवेत्यर्थः । तदेतदाह-सहृदया ह्यसीति ।
  4. समुपाहृतं- ङ.
  5. रामोऽपि-ड.
  6. मवाप्नुहि- ङ.