पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३ सर्गः]
143
क्रियतां मे दया भद्रे ! मयाऽयं रचितोऽञ्जलिः

 अस्तमित्यादि । यदा राज्ञः स्वनिवेशप्रवेशकालात्पूर्वं सूर्योऽस्तमभ्यागमत् रजनीचाभ्यवर्तत, सा त्रियामा-रजनी विलपमानस्य राज्ञो न व्यभासत । विलापनेनैव रात्रिकालो व्यतीत इत्यर्थः ।[१]अथ सा शर्वरी व्यभासत विभाता च इत्यावृत्त्य योजना ॥ १५ ॥

 तथैवोष्णं विनिश्वस्य वृद्धो दशरथो नृपः ॥ १६ ॥
 विललापार्तवद्दुःखं गगनासक्तलोचनः ।

 आर्तवत्-स्वार्थे वतिरित्युक्तम्[२] ॥ १६ ॥

 [३]न प्रभातं [४]त्वयेच्छामि निशे नक्षत्रभूषिते ! ॥ १७ ॥
 क्रियतां मे दया भद्रे ! मयाऽयं रचितोऽञ्जलिः ।

 अथ दुःखवशाद्रात्र्या अव्युष्टिं प्रार्थयते-न प्रभातमित्यादि । भावे निष्ठा । त्वया प्रभातमिति । त्वत्कर्तृकप्रभातमिति यावत् । मे-मह्यम् ॥ १७ ॥

 [५]अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ॥ १८ ॥


  1. 'न प्रभातं त्वयेच्छामि' इत्युत्तरत्र प्रार्थनानुरोधेन एवमावृत्त्य योजना कृता ।
  2. द्वादशसर्गे अष्टपञ्चाशश्लोके 'विपरीतवत्' इत्यत्र स्वार्थे वतिरिति व्याख्यातम् ॥ आर्तवत्-रोगपीडित इव इत्यपि योजना कृता-ति. गो.
  3. रात्रिं प्रति प्रार्थयते-न प्रभातमिति ॥ अन्यथा 'निशे' इत्यस्यासाधुतापत्तेः । अतस्तिलकोक्तव्याख्यानं श्रेयः । तथा हि-हे निशे ('तवेच्छामि' इति पाठः) तव प्रभातं नेच्छामि। हे भद्रे निशे एवं हि तस्याः कल्याणदत्वम् । प्रभाते रामविवासनभयादिति भावः । मे-मह्यं दया क्रियताम् .
  4. तवेच्छामि-ङ. च.
  5. अथवा त्वया गम्यताम् । (निर्घृणायाः फैकेय्या दर्शनापेक्षया प्रभाते मम मरणमपि श्रेय इति भावः) रात्र्यपगमे हि प्रजासन्निधानेनैतद्दर्शनं न स्यात् । यद्वा-रामविवासनेन मरणे वा मम, तस्या दर्शन न स्यादिति भावः-ति. स्वयेति पाठे-त्वया गतया जायमानं प्रभातमित्यर्थः-ति.