पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
142
[अयोध्याकाण्डः
दशरथविलापः

 सुखानामुचितस्यैव दुःखैरनुचितस्य च ।
 दुःखं नामानुपश्वेयं कथं रामस्य धीमतः ॥ ११ ॥

 दुःखैरनुचितस्येति । षष्ठ्यर्थे तृतीया ॥ ११ ॥

 यदि दुःखमकृत्वाऽद्य मम संक्रमणं भवेत् ।
 [१]अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम् ॥ १२ ॥

 सर्वथा रामस्य दुःखाकरणमेव स्वहितमित्याह-यदीत्यादि । अदुःखार्हस्य रामस्य अद्य दुःखमकृत्वा इह सुखितस्य मम कालान्तरे स्वर्गस्य संक्रमणं भवेद्यदि तदा स्वर्गेऽपि सुखमाप्नुयाम् । तस्या वरं एतद्व्यतिरिक्ताकिञ्चिदर्थेन कृतार्थीकर्तव्यम् । अस्यादानेऽप्यशक्यार्थत्वाद्दोषो न भविष्यतीत्याशयः ॥ १२ ॥

 नृशंसे ! पापसंकल्पे ! रामं सत्यपराक्रमम् ।
 [२]किं विप्रियेण कैकेयि ! प्रियं योजयसे मम ॥ १३ ॥
 अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे ।
 तथा विलपतस्तस्य परिभ्रमितचेतसः ॥ १४ ॥
 अस्तमभ्यागमत्सूर्यो रजनी चाभ्यवर्तत ।
 [३]सा त्रियामा तथाऽऽर्तस्य चन्द्रमण्डलमण्डिता ॥ १५ ॥
 राज्ञो विलपमानस्य न व्यभासत शर्वरी ।


  1. अदुःखार्हस्य रामस्य दुःखमकृत्वैव यद्यद्यैव मम मरणं भवेत्- तदानीं सुखमवाप्नुयां-एवं मरणे वराप्रदानजन्यदोषोऽपि न । जीवतो हि सा प्रतिज्ञा-ति. गो. 'स्वर्गेऽपि खलु रामस्य' (६ श्लो.) इत्येतच्छेषभूतोऽयं श्लोकः
  2. किं-किमर्थं-गो.
  3. अत्रियामा-यामत्रयवत्वं विहायातिदीर्घा-गो.