पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३ सर्गः]
141
श्रमेण महता लब्धः कथं पुत्रो विवास्यते !

 इह रामप्रवासनदुःखमृतस्य मृत्वा स्वर्गेऽपि सौख्यं नास्ति । अतस्त्वदिष्टं कृत्वा मरणापेक्षया रामाभिषेचनमेव मे हितमित्याशयेनाह-स्वर्ग इत्यादि । त्वद्वचनं कृत्वा मृत्वा मयि स्वर्गं गते स्वर्गेऽपि दैवतैः रामस्य कुशलं पृष्टोऽहं 'प्रत्याख्यातवानस्मि रामं' इति कथं प्रत्युत्तरं वदिष्ये । अथ प्रत्यादेशात्-त्वदिष्टसंपादनाय रामप्रत्यादेशाद्धेतोः देवैर्यदभिहितं भविष्यति-'किं मूढ ! ज्येष्ठं श्रेष्ठगुणैर्युक्तं कथं प्रत्याख्यातवानसि' इति तदेतदभिहितं कथं देवसभायां धारयिष्ये, बत ! अतस्तदप्रत्याख्यानमेव वरमिति मन्य इत्याशयः ॥ ६ ॥

 कैकेय्याः प्रियकामेन रामः प्रव्राजितो [१]मया ।
 यदि सत्यं ब्रवीम्येतत् [२]तदसत्यं भविष्यति ॥ ७ ॥

 ननु 'सत्यवशात्प्रत्यादिष्टवान्' इत्युत्तरं ब्रूहीत्यत्राह-कैकेय्या इत्यादि ।[३]गतार्थम् ॥ ७॥

 अपुत्रेण मया पुत्रः श्रमेण महता महान् ।
 रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥ ८ ॥
 शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः ।
 कथं कमलपत्राक्षो मया रामो विवास्यते ॥ ९ ॥
 कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् ।
 अभिराममहं रामं प्रेषयिष्यामि दण्डकान् ॥ १० ॥


  1. मयेत्यनन्तरं इतिकरणं द्रष्टव्यं-गो.
  2. तदसत्यं भविष्यति-"श्वस्त्वाह-मभिषेक्ष्यामि यौवराज्ये परन्तप" इति पूर्वोक्तमसत्यं भविष्यति-गो. प्रियकामेन-प्रियेण वरेण । असत्यं भविष्यति-असत्यं मंस्यन्त इत्यर्थः । कामुकतया प्रत्याख्यात इत्येव मंस्यन्त इत्यर्थः-ति.
  3. पूर्वस्मिन्नेव सर्गे व्याकृतत्वादित्यर्थः