पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
140
[अयोध्याकाण्डः
दशरथविलापः

 [१]अनर्थरूपाऽसिद्धार्था ह्यभीता [२]भयदर्शिनी ।
 पुनराकारयामास तमेव वरमङ्गना ॥ २ ॥

 अनर्थरूपेति । कुलस्येति शेषः । भयदर्शिनीति । राज्ञ इति शेषः । तमेव वरं आकारयामास-दातव्यत्वेन ग्राहयामास ॥ २ ॥

 त्वं [३][४] कथ्यसे महाराज ! सत्यवादी दृढव्रतः ।
 मम चेमं वरं कस्माद्विधारयितुमिच्छसि ॥ ३ ॥

 तदेवोच्यते-कथ्यस इत्यादि । [५]विधारयितुमिति-ऋणत्वेनेति शेषः ॥ ३ ॥

 एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा ।
 प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव ॥ ४ ॥
 मृते मयि गते रामे वनं मनुजपुङ्गवे ।
 हन्तानार्ये ! ममामित्रे ! सकामा [६]सुखिनी भव ॥ ५ ॥
 [७]स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम् ।
 प्रत्यादेशादभिहितं धारयिष्ये कथं बत ! ॥ ६ ॥


  1. अनर्थरूपा-पापरूपा-गो. अभीता-लोकापवादाभीता । भयदर्शिनी-दशरथस्येति शेषः । यद्वा अभयदर्शिनी-दशरथस्य (प्राण) भयमपश्यन्ती वरमुद्दिश्य आकारयामास-संबोधयामास-गो. भयदर्शिनी-रामाद्भरतस्येति शेषः-(ति).
  2. पापदर्शिनी-ङ.
  3. कत्थसे-ङ.
  4. कथ्यसे-जनोरति शेषः ॥ कत्थसे-इतिपाठे श्लाघसे इत्यर्थः
  5. नाशयितुमितिवार्थः
  6. सुखिता भव-ङ. भव कैकयि-झ.
  7. एतद्व्याख्यारीत्या-पूर्वार्धमेकं वाक्यम् । तत्र, पृष्टः कथं प्रत्युत्तरं वदिष्ये-इति शेषः । द्वितीयार्थं तु भिन्नं वाक्यम् । गोविन्दराजीयरीत्या, सर्वमेकवाक्यं-रामस्य
    कुशलं प्रति पृष्टोऽहं मदुक्तात्प्रत्यादेशात्तैरभिहितनिन्दादिकं कथं धारयिष्ये-इति ।