ममाहितं देवि ! न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे ॥ १११ ॥ कुतो रतिरिति-त्वया सहेति शेषः । यदेवं अतो-ममेत्यादि ॥
स भूमिपालो विलपन्ननाथवत्
स्त्रिया गृहीतो हृदयेऽतिमात्रया ।
पपात देव्याश्चरणौ प्रसारितौ
उभावसंप्राप्य, यथातुरस्तथा ॥ ११२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्वादशः सर्गः
स्त्रिया—स्त्रीमूलव्यथया । देव्याः प्रसारितौ चरणावित्यनेन, पत्यौ राजनि चाधमर्णदासदृष्टिरित द्योत्यते । असंप्राप्य पपातत्यनेन पस्पृक्षोरपि चित्तमूर्छाजनितवैवश्यं द्योतितम् । आखुकाय (११२ १/२) मानः सर्गः ॥ ११२ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्वादशः सर्गः
त्रयोदशः सर्गः
[दशरथविलापः]
[१]अतदर्हं महाराजं शयानमतथोचितम् ।
ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ॥ १ ॥
अथ सत्यपाशबद्धत्वेन 'न ते करिष्यामि वचः' इति दृढं वक्तुमशक्नुवन्, पुनरपि प्रसादयति-अतदर्हमित्यादि । अतदर्हं-स्त्रीप्रणामानर्हं । अतथोचितं-भूशयनानर्हम् ॥ १॥
- ↑ तादृशदुःखानर्ह-गो.