पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
138
[अयोध्याकाण्डः
दशरथप्रार्थना

 [१]प्रताम्य वा प्रज्वल वा प्रणश्य वा
  सहस्रशो वा [२]स्फुटिता महीं व्रज ।
 न ते करिष्यामि वचस्सुदारुणं
  समाहितं केकयराजपांसने ! ॥ १०९ ॥

 महीं व्रज-अथापि न ते वचः करिष्यामि । आकाशखण्डन-वदशक्यार्थत्वादित्याशयः ॥ १०९ ॥

 क्षुरोपमां नित्य[३]मसत्प्रियंवदां
  प्रदुष्टभावां स्वकुलोपघातिनीम् ।
 [४]जीवितुं त्वां विषहे [५][६]मनोऽरमां
  दिधक्षमाणां हृदयं सबन्धनम् ॥ ११० ॥

 असत्प्रियंवदां-मिथ्याप्रियवादिनीम् । तदेव प्रकटीकरोति-प्रदुष्टभावामिति । मनसस्त्वरमा-मनोऽरमा । हृदय सबन्धनमिति। सप्राणं मन इति यावत्, 'प्राणबन्धनं हि सौम्य मनः' इति श्रुतेः, प्राणबन्धनसहितमिति भावः । त्वां जीवितुं न विषहे । एतादृशी स्त्री नश्यत्वित्येवाशास इति यावत् ॥ ११० ॥

 न जीवितं मेऽस्ति कुतः पुनः सुखं
 विनाऽऽत्मजेना[७]त्मवतः कुतो रतिः ।


  1. प्रताम्य–ग्लानिं भज ।
    ताम्यतेलोण्मध्यमपुरुषैकवचनम् । एवं प्रज्वल-कुपिता भव । प्रणश्य-नष्टा भव । सहस्रशः स्फुटिता सती, महीं व्रज-भृगोः
    पत वा-गों. प्रताम्य-ग्लायस्व । प्रज्वल-अग्निप्रवेशेन । प्रणश्य-विषेण । कुद्दाल-प्रहारैः सहस्रशः स्फुटितां—कृतगर्तां महीं व्रज वा-ति.
  2. स्फुटितां-ङ. च.
  3. एतावता यत् प्रियंवदत्वं आसीत्, तद् मिथ्येत्यर्थः ।
  4. जीवतीं-ङ.
  5. मनोरमां-ङ.
  6. अमनोरमामिति पदच्छेदः-गो.
  7. त्मवता-ङ.