पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२ सर्गः]
137
एवं वदन्त्या रशना कुतस्ते न पतत्यधः

 सर्पी-जातिलक्षणो ङीष् । मोहादङ्केन भृताऽसि इति* योजना । तेन अङ्कभरणेन हेतुना ॥ १०५ ॥

 मया च रामेण च लक्ष्मणेन
  प्रशास्तु हीनो भरतस्त्वया सह ।
 पुरं च राष्ट्रं च महीं सपर्वतां
  [१]ममाहितानां च [२]भवाभिहर्षिणी ॥ १०६ ॥

 नृशंसवृत्ते ! [३]व्यसनप्रहारिणि !
  प्रसह्य वाक्यं यदिहाद्य भाषसे ।
 न नाम ते केन सुखात्पतन्त्यधः
  विशीर्यमाणा [४]दशनाः सहस्रधा ॥ १०७ ॥

 इह-देशे अद्य-काले प्रसह्य-पतिपत्नीभावं तिरस्कृत्य क्रूरं वावयं भाषसे यत्, अतोऽवश्यप्राप्तविशरणाः दन्ताः केन नाम हेतुना ते मुखाद्विशीर्यमाणा न पतन्तीति न जान इति शेषः ॥

 न किञ्चिदाहाहितमप्रियं वचो
  न वेत्ति रामः परुषाणि भाषितुम् ।
 कथं नु रामे ह्यभिरामवादिनि
  ब्रवीषि दोषान् [५]गुणनित्यसम्मते ॥ १०८ ॥


  1. अहितानां-शत्रूणां अभिभाषणशीला भव, मदाप्तानामभावात् । अभिहर्षिणीति पाठे तेषां हर्षदा भव-ति.
  2. भवाभिभाषिणी-ङ.च.
  3. व्यसनप्रहारिणि-वार्धक्यरूपापदि पुत्रवियोगकारिणि-ति. व्यसने-रामविरहे पुनः पुनः प्रेरणं-प्रहारः-गो.
  4. रसना-ङ
  5. गुणैर्नित्यं सर्वेषां सम्मते.