पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
136
[अयोध्याकाण्डः
दशरथप्रार्थना

 अन्ततः स्वस्य रामं विना जीवनव्यतिरेकं दर्शयिष्यन् तदन्वये स्वजीवनान्वयं दर्शयति-अहमित्यादि । आव्रजन्तं पश्यन्नहं दर्शनेन[१] तस्य दूरदर्शनेनापि नन्दामि । आगतं अन्ति के दृष्ट्वा चिरवृद्धोऽहं पुनर्युवेव भवामि- युववदतिहृष्टपुष्टान्तर्बहिःपरिकरो भवामि ॥ १०३ ॥

 [२]विना [३]हि सूर्येण भवेत् [४]प्रवृत्तिः
  अवर्षता वज्रधरेण वाऽपि ।
 रामं तु गच्छन्तमितः समीक्ष्य
  जीवेन्न कश्चित्त्विति चेतना मे ॥ १०४ ॥

 हिशब्दो यद्यप्यर्थे । सूर्येण विना यद्यपि प्रवृत्तिः स्यात्, तथा वज्रधरेणावर्षतापि जीवनमपि यद्यपि स्यात्; अथापि राममितो गच्छन्तं वीक्ष्य न कश्चिदप्यनुभूतरामस्वभावो लोको जीवेदिति तु मे चेतना-धीः । लोकस्यैवैवंदशत्वे मदजीवनं कैमुतिकसिद्धम् ॥ १०४ ॥

 विनाशकामामहिताममित्रां
  आवासयं मृत्युमिवात्मनस्त्वाम् ।
 चिरं बताङ्केन भृताऽसि सर्पी
  महाविषा तेन हतोऽस्मि मोहात् ॥ १०५ ॥


  1. आव्रजन्तं मत्समीपे आगच्छन्तं श्रुत्वेति शेषः । आगच्छन्तं श्रुत्वा दर्शनेन-चक्षुषा पश्यन्निव नन्दामि-ति. आव्रजन्तं दर्शनेन-मानसज्ञानेन पश्यन्नपि नन्दामि-गो. मत्तमातङ्गगामिनं' इत्याद्युक्तरीत्या । अथवा दर्शनेन-चक्षुषा इत्यर्थः । आगच्छन्तं तं मनसा स्मरन्नपि नन्दामीति भावः.
  2. विनाऽपि-ड. झ.
  3. हिशब्दो अपीत्यर्थे-ति.
  4. प्रवृत्तिः-संचारः, वज्रधरपक्षे-जीवनविषयप्रवृत्तिः-गो.