पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२ सर्गः]
135
मृते मयि गते रामे विधवा राज्यमावस

 अनर्थभावेऽर्थपरे ! नृशंसे !
  ममानुतापाय निविष्टभावे !
 किमप्रियं पश्यसि [१]मानिमित्तं
  हितानुकारिण्यथ वापि रामे ॥ १०१ ॥

 स्वपरानर्थसाधने भावो यस्याः सा तथा । निविष्टो-निवेशितो दुर्भावो यस्याः सा तथा । मानिमित्तमिति । मन्निमित्तमिति यावत् ॥ १०१ ॥

 [२]परित्यजेयुः पितरोऽपि पुत्रान्
  भार्याः पतींश्चापि [३]कृतानुरागान् ।
 कृत्स्नं हि सर्वं कुपितं जगत्स्यात्
  दृष्ट्वैव रामं व्यसने निमग्नम् ॥ १०२ ॥

 कृतानुरागशब्दः पुत्रपतिभार्याणां त्यागानौचित्यहेतुः यथोचितविपरिणामः पुत्रादिषु योज्यः । कृतानुरागान्-पुत्रान् त्यजेयुः किं? 'च' 'अपि' शब्दात् पतयश्च कृतानुरागा भार्यास्त्यजेयुः किं ? इति योज्यम् । कृत्स्नं रामप्रवाससाधकं त्वद्व्यापारं दृष्ट्वा-रामं च तद्बशाद्व्यसने निमग्नं दृष्ट्वा सर्वं जगत् त्वां[४] प्रत्येव कुपितं स्यात् ॥१०२ ॥

 अहं पुनर्देषकुमाररूपं
  अलंकृतं तं सुतमात्रजन्तम् |
 नन्दामि [५]पश्यन्नपि दर्शनेन
  भवामि दृष्ट्वा च पुनर्युवेव ॥ १०३ ॥


  1. अत्र मन्निमित्तमित्येव प्रायः पाठः-ङ.
  2. कुपितं जगत्स्यादित्यत्रोक्तकोपप्रकारमाह-परित्यजेयुरित्यादि । अनेन अनर्थसाधनभाववत्तोपपादिता-ति.
  3. कृतानुरागाः-ङ.
  4. त्वां प्रतीति शेषः-गो.
  5. पश्यन्निव-ड.च.