पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
134
[अयोध्याकाण्डः
दशरथप्रार्थना

 कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः ।
 पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥ ९५ ॥
 यस्य त्वाहारसमये सूदाः कुण्डलधारिणः ।
 अहंपूर्वाः पचन्ति स्म [१]प्रशस्तं पानभोजनम् ॥ ९६ ॥

 सूदाः-पाचकाः ॥ ९६ ॥

 स कथं नु कषायाणि तिक्तानि कटुकानि च ।
 भक्षयन्वन्यमाहारं सुतो मे वर्तयिष्यति ॥ ९७ ॥
 महार्हवस्त्रसम्बद्धो भूत्वा चिरसुखोचितः ।
 काषायपरिधानस्तु कथं रामो भविष्यति ॥ ९८ ॥
 [२]कस्यैतद्दारुणं वाक्यं एवंविध[३]मचिन्तितम् ।
 रामस्यारण्यगमनं भरतस्याभिषेचनम् ॥ ९९ ॥

 रामस्यारण्यगमनं,भरतस्याभिषेचनमित्येवंविधमचिन्तितमेतद्दारुणं वाक्यं-वाक्यश्रवणं, कस्य-कीदृशस्य मम दुष्कर्मणः-फलम् ॥ ९९ ॥

 धिगस्तु योषितो नाम शठाः स्वार्थपराः सदा ।
 [४]न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ॥ १०० ॥

 धिगस्त्विति । एवंक्रूरवचना इति शेषः । तमेव विशेषमभिप्रेत्याह-न ब्रवीमीत्यादि । १०० ॥


  1. प्रसन्नाः-ङ.च.
  2. कस्य-केनोपदिष्टं, यद्वा-कस्य सह्यमिति शेषः-गो. वस्तुतस्तु एतादृशं दारुणं वाक्यं कस्य वा स्यात्-न कस्यापीत्यर्थः । दुःखातिशयादर्धोक्त एव विरामः
  3. मपीरितं-ङ.च.
  4. कौसल्यास्मरणेनाह–न ब्रवीमीत्यादि,