पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२ सर्गः]
133
मा ते मे भरतः कुर्यात् प्रेतकार्ये गतायुषः

 मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः ।
 इक्ष्वाकुकुल[१]मक्षोभ्यमाकुलं पालायिष्यसि ॥ ९१ ॥

 मया रामेणेत्यादिः व्यङ्ग्योक्तिः ॥ ९१ ॥

 प्रियं चेद्भरतस्यैतद्रामप्रव्राजनं भवेत् ।
 [२]मा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः ॥ ९२ ॥

 रामप्रव्राजनस्य भरतानुमतौ स तु मे शत्रुरेवेत्याशयेनाह- -मा कार्षीत्प्रेतकृत्यमिति ॥ ९२ ॥

 मृते मयि गते रामे वनं पुरुषपुङ्गवे ।
 सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ ९३ ॥
 त्वं राजपुत्रि ! '[३]दैवेन [४]न्यवसेर्मम वेश्मनि ।
 अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ।
 सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ॥ ९४ ॥

 राजा पुत्रो यस्याः सा राजपुत्री, तस्याः सम्बुद्धेः । 'सूतोग्रे' इत्यादिना पुत्रार्थपुत्रट्प्रातिपदिकान्तत्वेन दीर्घः । इयमपि व्यङ्ग्योक्तिः । दैवेन मामकदुरदृष्टवशात् मम वेश्मनि न्यवसेर्यदि,'अट्' आर्षः, तदा लोके-अप्रत्यक्षोऽपयशः अकीर्तिः परिभवः-महाजन-समक्षं धिक्कारः अवज्ञा-अवमतिः-क्षुद्रत्वेन प्रतिपत्तिः । पापकृतः-महापापकृतः ॥ ९४ ॥


  1. एतावता अक्षोभ्यं-इदानीं आकुलं क्षुभितम् । एवं इतरत्रापि
  2. एतदनन्तरं- 'हन्तानार्ये ममामित्रे सकामा भव कैकयि' इत्यधिकं-ङ.
  3. त्वं राजपुत्री-वादेन' इति गोविन्दराजीयपाठः ॥ अकीर्यादित्रयरूपा त्व राजपुत्रीव्यपदेशेन मम वेश्मनि
    न्यवसः-गो.
  4. अत्र 'न्यवसः' इति-तिलके-गोविन्दराजीये च पाठः । यतो न्यवसः-अतः अकीर्तिरित्याद्येतत्सर्वं भविष्यतीति शेषः-ति.