पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
132
[अयोध्याकाण्डः
दशरथप्रार्थना

 मृते मयि गते रामे वनं मनुजपुङ्गवे ।
 [१]इष्टो मम जनः शेषः [२]किं पापं प्रतिपत्स्यते ॥ ८८ ॥

 किं पापं-कीदृशं दुःखम् । मनोवागगोचरमिति यावत् ॥

 [३] [४] कौसल्या मां च रामं च पुत्रौ च यदि [५]हास्यति ।
 दुःखान्यसहती देवी मामेवानुमरिष्यति ॥ ८९ ॥

 तदेव दुःखं दर्शयति-कौसल्येत्यादिना । पुत्रौ चेति । लक्ष्मणशत्रुघ्नाविति यावत् । कौसल्या मां रामं च यदा हास्यति तदा दुःखान्यसहती मामेवानुमरिष्यति, देवी सुमित्रा च; लक्ष्मणस्य रामनियतसहगमनात्, इतरस्य च दैवादद्य भरतेन सह गतत्वाच्च, ताभ्यां मया च रहिता सा मामेवानुमरिष्यति ॥ ८९ ॥

 कौसल्यां च सुमित्रां च मां च पुत्रैः त्रिभिस्सह ।
 प्रक्षिप्य [६]नरके सा त्वं कैकेयि ! सुखिता भव ॥ ९० ॥

 एवञ्च सति-कौसल्यामित्यादि ॥ १० ॥


  1. इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे-ङ. च.
  2. शेषे अवशिष्टे ममेष्टे कौसल्यादिरूपे जने किं पापं-दुःखसाधनं प्रतिपत्स्यसे-करिष्यसि-ति.पापं-अन्याय प्रतिपत्स्यसे-चिन्तयसि-गो.
  3. कौसल्यां, सुमित्रा-ङ.
  4. हास्यति-हीना भविष्यति । चात्सुमित्रा । यदि पुत्रौ च, चाद्रामं मां च एतैर्यदि हीना भविष्यति तदा देवी-कौसल्या सुमित्रा च ति. गोविन्दराजीये तु-कौसल्यां-इति पाठः । देवी सुमित्रा ॥ अत्र वाक्यशैलीपर्यालोचनायां ९० तमश्लोकदर्शने च त्रयाणां विवक्षा अङ्गीकरणीया । तत्र 'राघवे इत्यत्र स्वदुर्गतिः, 'मृते मयि' इत्यत्र कौसल्यादुर्गतिः,'कौसल्यां मां च' इत्यत्र सुमित्रादुर्गतिश्चोच्यत इति युक्तम् । एवञ्च 'कौसल्यां' इति
    पाठः स्वरस इव । एवञ्च जनः-कौसल्यारूपः विवक्षितः । अन्यथा 'पुत्रौ' इति द्विवचनान्वयार्थं वाक्यभेदाश्रयणं, 'देवी' पदस्य सुमित्रापरत्वं च शपथमात्रनिर्णेयं स्यादिति.
  5. राज्ञः शोकाविष्टत्वाद्विसंष्ठुलवाक्यप्रयोगो न दोषाय-ति एवं च वाक्यद्वयात्मकमिदं श्लोकमिति भावः.
  6. अत्र नरकशब्देन दुःखं लक्ष्यते-गो.