पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२ सर्गः]
131
राघवे हि वनं प्राप्ते नूनं प्राप्स्ये यमक्षयम्

 नालमित्यादि । प्रव्रजेत्युक्तोऽसौ 'प्रव्रजामि' इत्येतदन्यत् द्वितीयं वचनं वक्तुं नालम् अहमिव धर्मयन्त्रितत्वात् । अतो न तु-[१]"हन्त त्वयाहमिमं यजा इति-स ह नेत्युक्त्वा धनुरादायारण्यमुपातस्थौ" इत्यादिप्रसिद्धरोहितादिराजकुमारवत् पितृवचनलङ्घनं करिष्यतीत्यर्थः ॥ ८५ ॥

 यदि मे राघवः कुर्यात् वनं गच्छेति भाषिते ।
 प्रतिकूलं प्रियं मे स्यात् न तु वत्सः करिष्यति ॥ ८६ ॥
 राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम् ।
 मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ॥ ८७ ॥

 ततश्च किमित्यत्राह-राघव इत्यादि । अक्षमणीयं-दुस्सह-वृत्तम् ॥ ८७ ॥


  1. एतरेयब्राह्मणमिदम् (३३-२) । इयमाख्यायिका ऐतरेयब्राह्मणे त्रयस्त्रिंशाध्याये द्वितीयखण्डे दृश्यते । एवं भागवते नवमस्य सप्तमेऽध्यायेऽपि । इयञ्च साऽऽख्यायिका-ऐक्ष्वाको हरिश्चन्द्रो नाम राजा अनपत्यतया दूयमान आसीत् । नारदस्तमभ्येत्यो- वाच, त्वं पुत्रार्थं वरुणं प्रार्थय "मम पुत्रो यदि जायेत; तेनैव पशुना त्वां यजामीति" इति । हरिश्चन्द्रोऽप्येवं प्रार्थयामास । अथ च तस्य पुत्रोऽजनि । तस्य रोहित इति नाम कृतम् । तदवगत्य वरुणः– “सुतो जातः खलु ते, तेन मां यज त्वद्वचनरीत्या" इति पप्रच्छ । हरिश्चन्द्रस्तु पुत्रप्रेम्णा यष्टुमनिच्छन् “इदानीमेव जातः पुत्रः । दशदिन-पर्यन्तमाशौचेन स अशुद्धः । तदनन्तरं यजामि" इत्यवदत् । दशदिनानन्तरं वरुणः पुनरागत्य पप्रच्छ । हरिश्चन्द्रस्तु-पुत्रस्य दन्ताः जायेरन्; तदानीमेव सर्वावयवपूर्त्या स यागयोग्यी भवेदित्यवदत् । वरुणः पुनरपि पप्रच्छ दन्तोत्पस्यनन्तरम् । तदापि सः इमे दन्ताः न स्थिराः, एतेषां पतनानन्तरं पुनरन्ये दृढा दन्ता जायेरन् । तदा यजामीत्यवदत् । तथैव वरुणः पुनरागच्छत् । तदानीमपि हरिश्चन्द्रः-अयं च बालः । यदायं तरुणः पूर्णवृद्धिर्भवति तदैव समीचीनो यागायेत्यब्रवीत् । सोऽपि वरुणः तथैव पुनरागच्छत् । तदानीं तु व्याजान्तरं वक्तुमसमर्थो हरिश्चन्द्रः स्वपुत्रं रोहितमाहूय सर्वे वृत्तान्तमकथयत् । स तु रोहितः पित्रे क्रुद्धः पितृवचनमुललंघ्य धनुरादायारण्यं प्रत्यगच्छदिति ॥