पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
130
[अयोध्याकाण्डः
दशरथप्रार्थना

 चिरं खलु [१]मया पापे ! त्वं पापेनाभिरक्षिता ।
 अज्ञानादुपसंपन्ना रज्जुरुद्बन्धिनी यथा ॥ ८० ॥
 रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये ।
 बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ ८१ ॥

 बाल इवेति योजना ॥ ८१ ॥

 मया [२]ह्यपितृकः पुत्रः स महात्मा दुरात्मना ।
 तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति ॥ ८२ ॥

 मयेत्यादि । हि-यस्मात् मया या दुरात्मना महात्मा पुत्रः अपितृकः–पितृप्रयुक्तराज्यरहितः कृतः, तस्मात् तं-तादृशं तु मामेवायं लोको नूनमाक्रोष्टुमर्हति । आक्रोशो-निन्दा ॥ ८२ ॥

 बालिशो बत कामात्मा राजा दशरथो भृशम् ।
 स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति ॥ ८३ ॥

 तस्या एव प्रकारः–बालिश इत्यादि । प्रस्थापयिष्यति, प्रस्थापयति, प्रातिष्ठिपदिति त्रिकाले च निन्दा द्रष्टव्या ॥ ८३ ॥

 [३]व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकार्शितः ।
 भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ॥ ८४ ॥

 उपकर्शितः-प्रापितकार्यः । कृच्छ्रं-जटाद्युपेततया वने तपः-क्लेशम् ॥ ८४ ॥

 नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् ।
 [४]स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ ८५ ॥


  1. महापापे-ङ.
  2. अपितृकः-पितृकृतरक्षणादिरहितः- गो.
    (पित्रभावे यथा स्यात्तथा संपन्नमिति भावः ।)
  3. वेदैश्व- ङ.च.
  4. इदमर्ध झ.पुस्तके नास्ति ।