पुटमेतत् सुपुष्टितम्
१२ सर्गः]
129
धिक्करिष्यन्ति रथ्यासु मामतार्य इति प्रजाः
[१]सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम् ।
रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः ॥ ७६ ॥
सतीं असतीमिति । पतिमारकत्वेन सर्वथाऽसतीम् । विषसंपन्नां रूपिणीं-दृष्टिप्रियाम् ॥ ७६ ॥
सान्त्वैः-इष्टवचनैः । गीतशब्देन-गीतध्वनिना ॥ ७७ ॥
अनार्यः-पापी इति रथ्यासु विकरिष्यन्तीति । वदिष्यन्तीति यावत् । तत्र हेतुः-पुत्रविक्रायकमिति । ण्वुलि वृद्धावायादेशः । पुत्रेण मूल्येन स्त्रीसुखं क्रीतवानित्यर्थः ॥ ७८ ॥
यत्र-एतादृशे विषयेऽपि तव वाचः क्षमे यतः अतः पुराकृतमशुभमेव, एवंविधदुःखं दुःखपरिणामं सत्प्राप्तम् ॥ ७९ ॥
- ↑ पूर्वं सतीत्वेन ज्ञातां-इदानीमनेन व्यापारेण असतीं सतीं-असतीत्वेन स्थितां व्यवस्यामि । कथमिव-रूपिणीं दृष्टिप्रियां विषसंयुक्तां मदिरां पीत्वा, नरः, अनन्तरं
विकारादिना यथा असतीं-दुष्टां अध्यवस्यति-गो. ति. - ↑ 'नास्मि विप्रकृता देव' इत्यादिवचनानि पूर्वसर्गोक्तान्यत्र विवक्षितानि ।
- ↑ व-ङ.
- ↑ विक्रयिणं-ङ.
- ↑ धिक्करिष्यन्ति-ङ.
- ↑ दुःखं कष्टं, कृच्छ्रं कष्टं, अहो कष्टम् ! अहो कष्टम् ! इति यावत्-ति. वाच इति द्वितीयाबहुवचनान्तम् । क्षमे इति लट उत्तमैकवचनान्तम् । पुरा कृतमशुभं यथा सह्यं, तथा भवद्वाक्यश्रवणमपि मम प्राप्तम् ।
- ↑ इव शब्द एवार्थे । अशुभं-अशुभफलम्-ति. गो.