पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
128
[अयोध्याकाण्डः
दशरथप्रार्थना

 सुमित्राऽवेक्ष्य वै भीता कथं मे विश्वसिष्यति ।

 रामस्य च विप्रकारं-विरोधं त्वन्निमित्तं, वनस्य संप्रयाणं च सुमित्रावेक्ष्य रामस्यैवैवंदशत्वे मत्पुत्रस्य का गतिः? इति भीता सती कथं मे वचनं-'त्वं सपुत्रा सुखेन तिष्ठ' इत्यादिवचनं विश्वसिष्यति-न कथमपि ॥ ७९ ॥

 कृपणं बत! वैदेही श्रोष्यति द्वयमप्रियम् ॥ ७२ ॥
 [१]मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम् ।

 श्रोष्यतीति यत् तत् कृपणं-कष्टं बतेति योजना ॥ ७२ ॥

 वैदेही बत ! मे[२] प्राणान् शोचन्ती क्षपयिष्यति ॥ ७३ ॥
 हीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी ।

 तदेव सीताकार्पण्यं प्रदर्श्यते-वैदेहीत्यादि । मे-मम [३]रामविवासनादिव्यापारेणं शोचन्ती प्राणान् क्षपयिष्यति ॥ ७३ ॥

 न हि राममहं दृष्ट्वा [४]प्रविशन्तं महावने ॥ ७४ ॥
 चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम् ।

 सीताया इव ममापि प्राणक्षपणं प्राप्तमित्याह-न हीत्यादि ।

 [५]सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ ७५ ॥

 सा नूनमिति | सा-त्वं ; नूनं-ध्रुवमित्यर्थः ॥ ७५ ॥


  1. अप्रियद्वयमेवाह–मां चेत्यादि-ति.
  2. मे मदर्थम् । उपलक्षणमेतत् । रामार्थमित्यस्यापि-ति.
  3. एतच्चाध्याहार्यमिति भावः
  4. प्रवसन्तं- ङ. च.
  5. एतदनन्तरं 'न हि प्रव्राजिते रामे देवि ! जीवितुमुत्सहे।' इत्यधिकम्-ङ.