पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२ सर्गः ]
127
किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते

 [१]दासीवदिति-अभिमतान्नपानसंपादने; सखीवदिति-क्रीडायाम् ; भार्यावदिति-अग्निहोत्रादिधर्मानुष्ठाने; भगिनीवदिति-ज्ञानयोगानुष्ठाने; मातृवदिति-तत्त्वकथने । उपतिष्ठते-सेवते ॥ ६८ ॥

 सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा ॥ ६९ ॥
 न मया सत्कृता देवी सत्कारार्हा कृते तव ।

 [२] अस्मत्प्रियः-कामः यस्याः सा तथा । प्रियः पुत्रः यस्याः सा तथा । उक्तस्वभावैः सततं विशेषसत्कारार्हापि, त्वत्कृते-तव वैमनस्यपरिहाराय न सत्कृता ॥ ६९ ॥

 इदानीं तत्तपति मां यन्मया सुकृतं त्वयि ॥ ७० ॥
 अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम् ।

 इदानीं-रामविवासने सति । यत् मया, त्वयि सुकृतं- शोभनं कर्म, शुश्रूषालक्षणं कृतं तत् अपथ्यव्यञ्जनोपेतं सद्भुक्तं अन्नं यथा आतुरं-रुग्णं तपति-अन्तर्भावितणिः, तापयति तथा तापयतीति शेषः ॥ ७० ॥

 [३]विप्रकारं च रामस्य संप्रयाणं वनस्य च ॥ ७१ ॥


  1. तिलके एतदनूद्य एवं व्याख्यातम् । दासीव रतिव्यवहारे, सखीवद्रहस्यकथने, भार्यावद्धर्माचरणे, भगिनीवद्धिताशंसने, मातृवद्भोजनदाने इति । गोविन्द-राजीये त्वेवं व्याख्यातम्–परिचर्याकाले दासीवस्परिचरति ; न महिषीत्वं पुरस्करोति । द्यूतक्रीडादिसमये सखीवद्व्यवहरति । धर्मानुष्ठानसमये भार्यावत्-भार्यया यथा वर्तितव्यं तथा वर्तते, न तु महिषोत्वाभिमानेन जोषमास्ते । भार्यान्तरविवाहसमये मगिनीवत्-सोदरीवोपलालयति ( न तु त्वमिवाभ्यसूयतीति भावः) । शरीरपोषणा दिदशायां मातृवद्धितपरा तिष्ठतीति.
  2. अनेन भवतीव कौसल्या न कदापि में विप्रियमिच्छत्यपीत्युक्तम्
  3. विप्रकारं-अभिषेक-निवृत्तिम्-ति. विपरीतप्रकारं-गो. अयं भावः–रामस्य यौवराज्याभिषेके निश्चिते तद्विपरीततया भरतामिषेचनं, न तन्मात्रं रामस्य वनवासं च प्रेक्ष्येति.