[१]परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा ।
बालः बत-अज्ञः अयमैक्ष्वाकः चिरं राज्यमकारयत् इति यत् [२]तद्दैवगत्या घुणाक्षरन्यायेन इत्येव वदिष्यन्तीति शेषः । परिप्रक्ष्यन्ति काकुत्स्थमिति । क्व राम इति प्रातरिति च शेषः ॥ ६४-६५ ॥
कैकेय्या क्लिश्यमानेन [३]पुत्रः प्रव्राजितो मया ॥ ६६ ॥
यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ।
सत्यपरिपालनवशात् प्रव्राजित इति ब्रूहीत्यत्र-लोकस्तद्वास्तवं न प्रतिगृह्णाति, किन्तु कामहतस्त्रीवचसा प्रव्राजितवानित्येव वदिष्यतीत्याह-कैकेय्येत्यादि । क्लिश्यमानेनेति । प्रव्राजनवरवरणेनेति शेषः । यदि सत्यं ब्रवीमीति । [४]यद्यपि सत्यमेव ब्रवीमि अथापि तदसत्यमेव भविष्यति ; लोकस्तु तुन [५]श्रद्दध्यादित्यर्थः ॥ ६६ ॥
किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते ॥ ६७ ॥
किञ्चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ।
किं मामित्यादि । हे राजन् ! मया मत्पुत्रेण वा किं तेऽपराद्धम् इति यदा वक्ष्यति तदा एनां प्रति निरुत्तरमेवेत्यर्थः । किञ्चकिन्विति यावत् ॥ ६७ ॥
[६]यदा यदा च कौसल्या दासीवच्च सखीव च ॥ ६८ ॥
भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ।
- ↑ परिपृच्छन्ति-ङ.
- ↑ किमित्यधिक्षेपार्थकः । एवञ्चायमर्थः तात्पर्यवशालभ्यते
- ↑ रामः-ङ.
- ↑ यद्यपि कैकेय्या क्लिश्यमानेन मया पुत्रः वनं प्रव्राजितः न तु स्वबुध्येति सत्यमेव ब्रवीमि तथापि तदानीं तत्-राममभिषेक्ष्यामीति वचनं असत्यं भविष्यति । तत्त न युक्तं पूर्वमुक्तस्वात्-गो.
- ↑ किन्तु स्त्रीव्यामोहेन तथा कृतवानित्येव लोको वदेत् इति भावः
- ↑ श्लोकद्वयमेकान्वयम् । यदा यदोपतिष्ठति-तत्तदुचितकृत्येनोपास्ते, तदा तदा सत्कारार्हा त्वत्कृते न सत्कृतेत्यन्वयः-गो.