पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२ सर्गः]
125
कथं शक्ष्यामि मे रामं वनं गच्छेति भाषितम्

 व्यर्थं चेदं मत्कर्शनमित्याह-न कथञ्चिदित्यादि । ऋते रामाद्राज्यं नावसेदित्यनेन यथाभागशः चतुर्णामेव राज्यमनुमन्यस्व, यद्वा भरतस्याभिषेकं, रामस्य केवलं वृद्धस्य मम समीपेऽवस्थानं बाऽनुमन्यस्व, नान्यथा त्वत्प्रयोजनं इत्युपदेशः । नावसेदित्यत्र हेतुः-रामादित्यादि । [१]'ही' ति पदं ॥ ६१ ॥

 [२]कथं [३]द्रक्ष्यामि रामस्य, वनं गच्छेति भाषिते ॥ ६२ ॥
 मुखवर्णं विवर्णं तं यथैवेन्दुमुपप्लुतम् ।

 उपप्लुतः-राहुग्रस्तः ॥ ६२ ॥

 तां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् ॥ ६३ ॥
 कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् ।

 सुकृतां-सम्यक् प्रवर्तिताम् । तत्र हेतुः-सुहृद्भिः सह निश्चितामिति । बुद्धिं-रामाभिषेकविषयिणीम् । [४]अपावृत्तां-पराभूताम् ॥ ६३ ॥

 किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः ।
 [५]बालो बतायमैक्ष्वाकः चिरं राज्यमकारयत् ।
 यदा तु बहवो वृद्धाः गुणवन्तो बहुश्रुताः ॥ ६५ ॥


  1. 'अपिहितं' इत्यादिपदच्छेदभ्रान्तिनिवृत्त्यथैमाह-हीति पदमिति
  2. रामस्य विवर्णं मुखवर्णं कथं द्रक्ष्यामीत्यन्वयः.
  3. वक्ष्यसि ङ.
  4. अपावृत्तां-अधरोत्तरीकृतां, कथं द्रक्ष्यामि अनुभविष्यामि-गो.
  5. बाल ऐक्ष्वाकः, बत, तादृशः चिरं राज्यमकारयत्किमिति वक्ष्यन्तीत्यर्थः । वस्तुतस्तु पूर्वश्लोकः, छिद्रान्वेषिणां तुल्यकक्ष्याणां राज्ञां, परिहासगर्भितवाक्यरूपः । 'यदा तु' इति द्वितीयश्लोकस्तु स्वहितैषिणां गुणिनां वृद्धानां सानुतापप्रश्नरूपः । एवञ्च 'प्रथमदिने अभिषेकनिश्चयः, द्वितीयदिन एव प्रवासनं इति समीचीनम् ! इति परिहासेन बत । अयं बालो रामः चिरं राज्यमकारयत् इत्यादिकं किं वा मां वक्ष्यन्ति इति लज्जा सूचिता । 'संभावितस्य चाकीर्तिर्मरणादतिरिच्यते' इति न्यायात्.