पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
124
[अयोध्याकाण्डः
दशरथप्रार्थना

विपरीतवत्, स्वार्थे वतिः, बहुश इह विपरीत लक्षये; कार्यवशेनेति शेषः ॥ ५७ ॥

 कुतो वा ते भयं जातं या त्वमेवंविधं नरम् ॥ ५८ ॥
 राष्ट्रे भरतमासीनं वृणीषे राघवं वने ।

 भयं जातमिति । रामादिति शेषः ॥ ५८ ॥

 विरमैतेन भावेन त्वमेतेनानृतेन वा ॥ ५९ ॥
 यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च ।

 एतेन-निर्धूतपतिपत्नीभावलक्षणेन भावेन उपलक्षिता त्वं अतो विरम । यदि भर्तुः, लोकस्य, भरतस्य च प्रियं कार्यं-कर्तव्यं इच्छसि । अपि वा त्वं एतेन–अशक्यार्थवरणद्वारकेण [१]अनृतेन-ममानृतसंपादन-कर्मणा सर्वानर्थमूलेन उपलक्षिता त्वं ततो वा विरम, यदि भर्तुः लोकस्य भरतस्य च प्रियं कार्यं-कर्तव्यमिच्छसि । अत्र यद्वा भट्टो बहु जल्पति । तत्र न किञ्चिदपि सङ्गतं पश्यामः । पतञ्जलिवत् प्रौढ-पक्षान्तरोपन्यास एव तु विपश्चित्प्रेयान् ॥ ५९ ॥

 नृशंसे ! पापसंकल्पे ! क्षुद्रे ! दुष्कृतकारिणि ! ॥ ६० ॥
 किन्नु [२]दुःखमलीकं वा मयि रामे च पश्यासे ?

 अलीकं-अपराधः ॥ ६० ॥

 न कथञ्चिदृते रामाद्भरतो राज्यमावसेत् ॥ ६१ ॥
 रामादपि हि तं मन्ये [३]धर्मतो बलवत्तरम् ।


  1. अनृतेन-अनृतपदवाच्येन-गो. पतिविप्रियत्वादिति शेषः
  2. दुःखं दुःख-निमित्तम्। अलीकं-अप्रियम् गो. दुःस्वनिमित्तं अलीकं-अपराधम्-ति.
  3. धर्मतो बलवत्तरं-अतिशयेन धर्मवन्तम्-ति.