पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१०

 यस्तु पुरुषः दैवस्य गतिं विज्ञाय तदनुगुणतयाऽऽत्मनोऽपि गतिं परिष्कृत्य दैवमनुवर्तते, तं तत् उत्तमां गतिं नयति । यस्तु अहङ्कारात् अज्ञानाद्वा दैवगतेः विपरीततयाऽऽत्मनो गतिं परिकल्प्य स्वैरं गन्तुमिच्छति, सः बहुविधानर्थेषु पतति, स्वेष्टात् भ्रश्यति, न दैवसम्मतां सद्गतिं च प्राप्नोति, न जन्मसाफल्यमप्यश्नुते ॥

 'अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् |
 विविधाश्च पृथक्चेष्टाः दैवं चैवात्र पञ्चमम् ॥
 शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः ।
 न्याय्यं वा विपरीतं वा पश्चैते तस्य योनयः ॥
 तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
 पश्यत्यतबुद्धित्वान्न स पश्यति दुर्मतिः ॥'

(गीता 18, 14-16)
 

इति खलु केवलस्य चेतनस्य कर्तृत्वं निषेधति शास्त्रम् ।

 'इदमद्य मया लब्धं इमं प्राप्स्ये मनोरथम् ।'
 'ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ।
 आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ॥
 यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः । '
 'मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ '
 'अनेकचित्तविभ्रान्ताः मोहजालसमावृताः ।
 प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥' (गी. 16) इति,
 'सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
 मत्प्रसादादवाप्नोति शाश्वतं पद्मव्ययम् ॥
 'अथ चेत् त्वमहंकारात् न श्रोष्यसि विनङ्क्ष्यसि ।'

(गी. 18-58)
 

इति च अहंकारादिना दैवावज्ञया पतनं, दैवाश्रयणेन शाश्वत-पदावाप्तिं च स्पष्टमुपदिशति भगवान् । अतः-

 'दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ।'

इतीममेवार्थे शिक्षयन्त्यस्मान् इमा घटनाः । यद्यप्यत्रास्ति बहु विचारणीयं, सर्वे तत् रामायणभूमिकायां प्रतिपादयामः ॥