पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

११

 एतद्व्याख्याकारस्य माधवयोगिनः देशकालादिविषये प्रथम-संपुटप्रस्तावनायामुक्तमर्थं द्रढयत् प्रमाणजातमस्मिन् भागेप्युप-लभ्यत एव । सर्वमाहत्य एकत्र प्रकटीकर्तुकामाः नात्र पृथक् तमंशं प्रस्तवीमहे ॥

 एतत्संपुटसंपादने बालकाण्डसंपादनोपयुक्ता एव मातृकाः आदृताः, ताभिरेव संज्ञाभिः संज्ञिताश्च ॥

 कूडलिजगद्गुरुश्रीशङ्कराचार्यमठीयः नन्दीनागरलिप्यात्मकः तालपत्रकोशस्त्वेकः अनन्तरमुपलब्धः 'ट'संज्ञितः एतत्संपादने आदृतः ॥

 अयोध्याकाण्डस्यातिविस्तृतत्वात् संपुटेऽस्मिन् रामचित्रकूटनिवासपर्यन्तो भागः प्राकाशि । अवशिष्टश्च भागः समनन्तरसंपुढे प्रकाशयिष्यते ।

मैसूरु,
नव्यमङ्गलाभिजनः,
 
३०-७-१९६३.
वरदाचार्यः.