पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रमवासे यानि बाधकानि [१]रामेणोपन्यस्तानि, तानि भरतागमनात् चित्रकूटेऽपि प्राप्तानीति च चित्रकूटं तत्याज रामः । यदि तत्रैव वसेत् रामः तदा सीतापहरणाद्युत्तरानर्थानि न प्राप्येरन् ॥

 एवञ्च भरतकृतः रामप्रतिनिवर्तनप्रयत्नः विपरीतफल एवाभवत् ॥

 एवं श्रीरामः यत् सीताऽनुगमनं स्वपरमानुकूलममन्यत[२]तदेव पश्चात् पञ्चवट्यां महतेऽनर्थायाभूत् ॥

 एतादृश्यो विचित्रघटना एव रामायणबीजभूताः । एतास्वन्यतमाया अप्यभावे रामायणमेव न स्यात् ॥

 किमधिकेन ! विश्वामित्रयज्ञसंरक्षणकाले सुबाहुवत् मारीचोऽपि यदि हतः स्यात् तदा स्वर्णमृगवञ्चनसीतापहरणादिकमपि न संभव्येव ॥

 'अन्यो ह्यन्यच्चिन्तयति स्वच्छन्दं विदधाम्यहम्' इत्युद्घोषयतो दैवस्य गतिं प्राबल्यं च इदं सर्वमावेदयति ॥

 सङ्क्षेपतस्तु कथने दैवं तु सर्वहितमेकं स्वयं संकल्प्य तदनुगुणमेव प्रतिपदं न्यस्यति । बाह्यतः आकस्मिकतया भासमानेषु तस्य चलनेषु, वस्तुतः नास्त्याकस्मिकता नाम लेशतोऽपि । सर्वमपि पूर्वनिर्णीतक्रममनुसृत्यैव निर्वर्तयति तत् । स्वसंकल्पनिर्वर्तने यं कमपि प्रतिरोधं न सहते, बाह्यतःकष्टकार्पण्यादिकं न गणयति च । स्वेष्टं तु सर्वथा निर्वर्तयत्येव । एतादृशस्य दैवस्य गतौ न कोऽपि विघ्नं वैपरीत्यं वा कर्तुं शक्नोत्यपि ॥


  1. ‘भगवन् ! इत आसन्नः पौरजानपदो जनः ।' अयो. स. 54. श्लो. 24
    ‘आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः'  " "  25
    'एकान्ते पश्य भगवन् ! आश्रमस्थानमुत्तमम्  " "  26

  2. 'नेदानीं त्वदृते सीते ! स्वर्गोऽपि मम रोचते' अयो. स. 30 श्लो. 42