पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

तमेवाभिषेचयितुमिच्छति सः । पूर्वप्रतिज्ञाभङ्गेन रामाभिषेकः भरतासान्निध्य एव सुकर इति स भावयति[१] । अत एव केकय-राजानं अभिषेकोत्सवाय नाह्वयति च[२]

 परन्तु स्वानुकूलत्वेनावगतं भरतासान्निध्यमेव स्वस्यात्यन्त-प्रातिकूल्ये पर्यवसानमवाप। यदि नाम भरतस्तदा तत्रोपस्थितः स्यात्, तदा कैकेयीवरद्वयनिर्बन्धः, रामप्रव्राजनं, तन्मूलस्व-प्राणान्तविपत्तिः, इत्यादिकं सर्वथाऽसंभव्येव ॥

 एवं भरताभिषेकवरं आत्मनोऽनुकूलं ज्ञातवत्याः कैकेय्याः, स एव जटाचीरादिधारणपूर्वकं भरतस्य नन्दिग्रामे वासहेतुरभूत् ॥

 एवं भ्रातरं प्रत्यावर्तयितुं चित्रकूटं प्रस्थातुमुद्यतो भरतः, यदि स्वकृत्येन भविष्यन्तीं महतीं विपत्तिं जानीयात्, तदा चित्रकूटं न प्रस्थितो भवेत् ॥

 ससैन्येन भरतेन स्ववासस्य परिचितत्वादेव खलु चित्रकूटं परित्याज्यान्यत्र प्रस्थितो राम इति स्पष्टं ज्ञायते [३] । स्वस्य भरद्वाजा-


  1. 'विप्रोषितश्च भरतः यावदेव पुरादितः ।
    तावदेवाभिषेकरते प्राप्तकालो मतो मम ॥' अयो. स. 4 श्लो. 25

  2. नानानगरवास्तव्यान् पृथग्जानादानपि ।
    समानिनाय मेदिन्याः प्रधानान् पृथिवीपतिः ॥' अयो. स. 1 श्लो. 46

    'न तु केकयराजानं जनकं वा नराधिपः
    त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ॥ ' अयो. स. 1. श्लो. 48
    (अत्र अन्यथाप्रतिपत्तिवारणाय जनकस्याप्यनाह्वानमिति भाति ।)

  3. 'इह मे भरतो दृष्टः मातरश्च सनागराः ।
    सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥ अयो. स. 117. श्लो. 2
    तस्मादन्यत्र गच्छामः इति सञ्चिन्त्य राघवः ।
    प्रातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः। अयो. स. 117. श्रो. 4