पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

 मन्थरापात्रं तु काव्यदृष्ट्याऽत्यल्पमपि कथादृष्ट्या महत्तरं स्थानं वहति । महत्तरं कार्ये मध्ये कस्मिंश्चिद्विनाशयति 'कोऽयम् ? कुतो वाऽऽगतः ?' इति प्रश्नः जनानां हृदये समुन्मिषति किल? नात्र जिज्ञासा विवक्षिता, अपि तु 'पूजामध्ये भल्लुकप्रवेशवत्' तत्र तस्य प्रवेशे स्वासम्मतिः, जुगुप्सा वा सूच्यते । मन्थरायां एतादृशमेव भावं आविष्करोति 'ज्ञातिदासी यतो जाता'[१] इति वदन कविवरः ॥  एवं मन्थरायां स्वहृदयगतेन वैरस्येन हास्यरसवर्णनाय[२] तां उपयुञ्जन् कविवरेण्यः मन्थरां सर्वोपहासपात्रतामपि नयति ॥

 एवमस्मिन् काण्डे कथापात्राणां गुणादिपरिचयवत्, रामायण-कथाया बीजभूताः विचित्राः घटनाः दैवप्राबल्यपरिचायकाः पदे-पदेऽत्र ग्रथितवानादिकविरितीदमपि एतत्काण्डवैशिष्ट्योपोद्वलकं भवति ॥

 यद्यत् आत्मनोऽनुकूलं भावयति नरः, तदेव तस्य प्रतिकूलं वस्तुतो भवतीत्ययमंशः काण्डेऽस्मिन् बहुधा दृश्यते । यथा-

 स्वस्मिन् जीवत्येव स्वपुत्राभिषेकदर्शनानन्दमनुभवितुमिच्छति विचित्रतया दशरथः राजकुलमर्यादामुल्लङ्घ्य ॥

 तत्काले–पूर्वं कैकेयीविवाहकाले स्वेन कृतां तत्पुत्रराज्याभिषेकप्रतिज्ञां[३] स्मरति दशरथः । अथापि रामे प्रीत्यतिशयेन


  1. अयो- 7 - श्लो- 1.
  2. 'प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता ।
    'मेखलादाममिश्चित्रः अन्यैश्च शुभभूषणैः ॥
    बभासे बहुभिर्बद्धा रज्जुबद्धेव वानरी' अयो. स. 78. श्लो. 7)
    'तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः ।
    पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥ 'अयो, स. 9. श्लो. 52

  3. 'पुरा, भ्रातः ! पिता नः सः मातरं ते समुद्वहन् । मातामहे समाश्रौषीत् राज्यशुल्कमनुत्तमम् ॥' अयो. स. 107. श्लो. 3