पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

 सीतापात्रेऽस्मिन् आदिकविः पातिव्रत्यलक्षणं सर्वे पूरयामासेति सर्वविदितं न विशिष्यात्र वक्तव्यम् । परन्तु एतेन साकं स्त्रीप्रकृतेः सहजाः गुणाः-माधुर्यं, मार्दवं, मुग्धता, झटिति उद्वेगपारवश्यं, कथञ्चित् स्वेष्टसाधनाग्रहः, इत्यादयः गुणा अपि चित्र्यन्ते[१]हृदयङ्गममिति अहो! महर्षेः यथार्थवदनकौशलम् !


  1. 'प्रिया तु सीता रामस्य दाराः पितृकृता इति ।
    गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभ्यवर्धत ॥ (बाल. स. 77 श्लो. 28)
    'स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षये ।
    न कथञ्चन सा कार्या गृहीतधनुषा त्वया ॥
    बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान् । (अर. स. 9. श्लो 24 )
    यद्य फलं प्रार्थयते पुष्पं वा जनकात्मजा ।
    तत्तत्प्रदद्या वैदेह्याः यत्रास्या रमते मनः ॥ ' (अयो. स. 55. लो. 29)
    ‘एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम् ।
    सीतावचनसंरब्धः आनयामास लक्ष्मणः ॥' ( " " 32)
    अथात्मपरिधानार्थं सीता कौशेयवासिनी ।
    संप्रेक्ष्य चीरं संत्रस्ता पृषती वागुरामिव ॥ (अयो. स. 37 श्लो. 9)
    सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः । (" " 10)
    गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् ।
    कथं नु चीरं बध्नन्ति मुनयो वनवासिनः ?' (" " 12)
    'किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः ।
    रामजामातरं प्राप्य स्त्रियं पुरुषविग्रहम्' (अयो. स. 30 श्लो. 3)
    सुदुष्टस्त्वं वने रामं एकमेकोऽनुगच्छसि ।
    मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा' (आर. स. 45 श्लो. 24 )
    'अथ मामेवमव्यग्रां वनं नैव नयिष्यसि ।
    विषमद्यैव पास्यामि + तदैव मरणं वरम् ॥ ' (अयो. स. 30 श्लो. 19, 20)
    इत्यादयः श्लोकाः परिशीलनीयाः । विस्तरभयान्न विब्रियन्ते ।