पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

संक्षेपतस्तु भरतपात्रं सचमत्कारं परिचाययति एवं भासः-

 'सुचिरेणापि कालेन यशः किञ्चिन्मयाऽऽर्जितम् ।
 अचिरेणैव कालेन भरतेनाद्य सञ्चितम् ॥' [१]इति ॥

 'न च सीता त्वया हीना न चाहमपि राघव ।
 मुहूर्तमपि जीवावः जलान्मत्स्याविवोद्धतौ ॥'[२]

इति आत्मानं स्त्रिया सीतया साकं तोलयन् पुरुषसिंहोऽयं लक्ष्मणस्तु विचित्रसमस्यारूप एव सामान्यजनानाम् । स्वयं पत्नीविरहं सोढुमशक्नुवन्तं तया सह वनं प्रस्थितं रामं, स्वयं पत्नीं त्यक्ताऽनुजगाम, तेन चात्मानं 'कृतार्थोऽहं भविष्यामि' [३]इति मन्यते      स्म चेत्ययमंशः कथ न स्यात् समस्यारूपः सामान्यजनानाम् ?

 स्वप्राणाधिकप्रीत्या मातापितृभ्यां लालिता पालिता च दुहिता कृतविवाहा प्राप्तयौवना च, वत्सलतरौ मातापितरौ, एतावता चिरकालेन परिचितं स्वसंवृद्धिगृहं-सर्वमिदं परित्यज्य सहर्षं अचिरपरिचितेन स्वभर्त्रा सह कथं निर्गच्छति ? नेदं समस्यारूपम् ? आलोचयन्तु सुधियः । अधिकं पश्चात् रामायण-भूमिकायामुपपादयामः ॥

 परन्तु रामस्यानुजेषु त्रिषु सत्सु अयमेव रामानुजपदं स्वासा-धारणं प्रापेतीदमवधेयम् ॥


  1. प्रतिमानाटकं. 4-26.
  2. अयो. स. 54 लो 31.
  3. अयो. स. 31 श्लो. 24.