पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

वनं प्रस्थितं प्रव्रजितं सपत्नीपुत्रमपि रामं अनुगच्छन्तं स्वसुतं लक्ष्मणं अनुमतवतीं उदारां 'सूर्यस्यापि भवेत् सूर्यः ह्यग्नेरग्निः प्रभोः प्रभुः । दैवतं देवतानां च '[१] इति रामयाथार्थ्यवेदनवर्ती विदुषीं सुमित्रां अन्वर्थाभिधानामत्र पश्यामः ॥
 महाकाव्यमहानायकस्य रामस्य तदनुगुणाः कल्याणगुणाः अस्मिन् काण्डे विकसन्तः सौरभं प्रसारयन्ति सर्वशः । पितृभक्तिः, मातृप्रीतिः, आदर्शपतित्वं, सौभ्रात्रं, मित्रस्नेहः, प्रजावात्सल्यं, सत्यसङ्गरत्वं-इत्यादयो हि गुणाः मूर्तिमाहृत्य प्रकाशन्तेऽत्र ॥
 किं बहुना ! एतन्महाकाव्योपक्रमे उपोद्धातप्रकरणे 'बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः[२] इत्युक्तगुणानां व्यक्ति सम्बन्धः एतत्काण्डोपक्रम एव पुनःपुनः[३] प्रतिपाद्यते ॥
 श्रीरामवदेव भरतेनापि जनानां हृदयेषु असाधारणं एकं स्थानं आक्रान्तमेवेति नात्युक्तिः । राज्यार्थे यत्किञ्चिदण्यकृत्यं कर्तुं सन्नद्धता सामान्यतो राजकुमाराणां सहजो गुणः । एवं सति को नाम अवशप्राप्तं राज्यं त्यजेत् ? राज-गृहसम्बन्धिगम्भीरसंस्कारेण साकं इदमालोचयतामेव अस्य त्यागस्य गरिष्ठता ज्ञायेत[४] । इदमेव जानन् रामः 'न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः' [५] इति भरतं प्रशशंस ।


  1. अयो. स. 44 श्लो. 15, 16.
  2. बाल. स. 1 श्लो. 7.
  3. अयो. 1-2 प्रभृतिसर्गेषु द्रष्टव्यम् ।
  4. 'न सर्वे भ्रातरः-'इत्यादिवाक्यात् पूर्वतनमिदं वाक्यमवधेयं-

    'अस्ति सूक्ष्मतरं किञ्चित् यदत्र प्रतिभाति मे ।
    प्रत्यक्षं लौकिकं वाऽपि विद्यते सर्वराजसु ॥ (युद्ध, सं. 18 लो. 9)
    अमित्रास्तकुलीनाश्च प्रातिदेश्याश्च कीर्तिताः ।
    व्यसनेषु प्रहारः तस्मादयमिहागतः ॥ (युद्ध. स. 18 श्लो. 10)
    अपापास्तकुलीनाश्च मानयन्ति स्वकान् हितान् ।
    एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥' (युद्ध. स. 18 श्लो. 11)

  5. (युद्ध, स. 18 श्लो. 15.)