पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

दशरथवदेव प्राणप्रियात् पुत्रात् एतावता बहुना कालेनानुभूतस्य सपत्नीसकाशात् प्राप्तस्य अवमाननादेः पर्यवसानं प्रतीक्षते स्म कौसल्या[१]। परन्तु तद्विपरीतं एकैकस्य पुत्रस्य विश्लेषं प्राप्य-

 'यदि, पुत्र ! न जायेथा मम शोकाय रावव !
 न स्म दुःखमतो भूयः पश्येयमहमप्रजाः ॥
 एक एव हि वन्ध्यायाः शोको भवति मानसः ।
 अप्रजाऽस्मीति सन्तापः, न ह्यन्यः, पुत्र ! विद्यते ॥[२]

इति-सकललोकश्रेष्ठं पुत्रं प्रसूयापि स्वपुत्रजन्मैव निन्दयन्तीं वन्ध्यात्वमेवाशंस्यतरं मन्यमानां परमदीनां मातरं कौसल्यां, पत्नीकुलादर्शभूतां च तां[३] अस्मिन् काण्डेऽवलोकयामः ॥
 स्वसुतनिर्विशेषं रामे प्रीतिमतीं[४] स्वस्मै रामाभिषेकवृत्तान्तं प्रथमं निवेदितवत्यै मन्थरायै आभरणं पारितोषिकं दत्तवेतीमपि दैवेन स्वेष्टसाधनाय वञ्चितां, आपामरजनं[५] आ च ब्रह्मर्षिकुलं [६] धिक्कृतां, कृपणां, फलतः कौसल्याप्रतिकोटिभूतां कैकेयीमण्यत्रेक्षामहे ॥
 यादृशं पितृऋणविमोचनं स्वावश्यकर्तव्यं रामो मेने, तदेतत् एतादृशकैकेय्यभावे असंभाव्येवेति नूनं कैकेयी करुणार्द्दैव ॥


  1. 'न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे ।
    अपि पुत्रे तु पश्येयं इति रामास्थितं मया ॥' अयो. स. 20 श्लो. 38.
    'दश सप्त च वर्षाणि तव ज तस्य, राघव !
    आसितानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् ॥ अयो. स. 20 श्लो. 45.

  2. अयो. स. 20 श्लो. 36, 37.
  3. 'यदा यदा च कौसल्या दासीवच्च सखीव च ।
    भार्यावत् भगिनीवच्च मातृवच्चोपतिष्ठति ॥ अयो. स. 12 श्लो. 68.

  4. 'रामं वा भरते वाऽहं विशेषं नोपलक्षये । अयो, स. 7 लो. 35.
  5. यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् ।
    कं सा परिहरेदन्यं कैकेयी कुलपासिनी ॥ अयो. स. 48 श्लो. 22.

  6. अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसिनि !
    वञ्चयित्वा च राजानं न प्रमाणेऽवतिष्ठसे ॥'  अयो. स. 37 लो. 22.