पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

इदं सर्वे पश्यतां अस्माकमपि मनः तत्रैव वासं वाञ्छत्येव । परम् न युक्तं उपरोधं कर्तुं विविक्तदेशं अन्विष्यागतवतः श्रीरामस्य, वा वयं तादृशोत्तमप्रकृतयोऽपि । अतः सुखं वसन्तं श्रीराममालोक्य तावतैव निर्वृताः प्रतियास्यामो वयं अयोध्यां पुत्रशोकाभिसन्त वृद्धं दीनं दशरथमभिवीक्षितुम् [१]

 श्रीमदादिकविवाल्मीकिवदनारविन्दविनिस्सृतायामस्यां इति हासमधुसरिति-अयोध्याकाण्डोऽयं कथादृष्ट्या, वर्णनादृष्ट्या पात्रगुणचित्रणदृष्ट्या, सर्वैश्च प्रकारैः इतरकाण्डानतिशेत इति रसिकजनसम्मतम् ॥

 इदमेवाभिप्रेत्य मङ्खककविरपि 'त्रिभिः काण्डैः आद्यः कविरममविध्यत्' [२] इत्याहेति वयं मन्यामहे । सर्वाङ्गसुन्दरीणेऽप्यस्मि आदिकाव्ये अयोध्या-आरण्य-सुन्दरकाण्डाः इतरकाण्डापेक्ष विशिष्टं स्थानं वहन्तीति स्वयं भायादेव रसिकानाम् । अधि परस्ताद्विचारयामो विस्तरशः ॥

 अयमप्यस्त्यत्र विशेषः रामायणप्रधानपात्राणां गुणादि परिचयः अस्मिन्नेव काण्डे उत्तुङ्ग शिखरदीपायते । तद्यथा-

 पश्चिमे वयसि निराशोपहते चेतसि दैवात् पुत्ररत्नानि प्राधन्यो दशरथः । एतादृशस्य सकलसद्गुणसागरे ज्येष्ठे रा प्राणाधिका प्रीतिः सहजैव । इयमेव प्रीतिराजकुलमर्यादामप्युल्लङ्घ्य स्वस्मिन् जीवत्ये स्वपुत्रराज्याभिषेकेच्छायां विचित्रायां पर्यवसानमवाप[३] । परन्तु तद्दौर्भाग्यातिशयात् दैवचित्तस्यान्यथास्थितत्वेन न तदिच्छा पूर्णा भूत् ; प्रत्युत प्राणेभ्योऽपि प्रियस्य पुत्रस्य विश्लेषे--तत्रापि दारुवनप्रेषणे-तन्मूलतः परमदारुणे स्वजीवितान्ते च पर्यवसानमवाप एतादृशं दौर्भाग्योपहतं वृद्धं दीनं दशरथनृपं अस्मिन् काण् पश्यामः ॥


  1. अस्मिन् संपुटे एतावानेव भागः मुद्रितो वर्तते ।
  2. श्रीकण्ठचरितं-25-60.
  3. अथ राज्ञो वभूवैवं वृद्धस्य चिरजीविनः। प्रीतिरेषा व.थं रा राजा स्यान्मयि जीवति ? ॥ अयो. स. 1 श्लो. 36.