पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

प्रस्तावना

 'सुरम्यमासाद्य तु चित्रकूटं
  नदीं च तां माल्यवतीं सुतीर्थाम् ।
 ननन्द हृष्टो मृगपक्षिजुष्टां
  जहौ च दुःखं पुरविप्रवासात् ॥'

(अयो. ५६. ३८)
 

 हन्त ! सकलसहृदयहृदयहारिसन्निवेशविशिष्टं चित्रकूटं आसाद्य बन्धुजनवियोगादिकं सर्वमपि विस्मृत्य प्रियया सह विहरन्तं सानुजं श्रीरामचन्द्रमवलोक्य किञ्चिदिव समाश्वसितं इदानीं अस्माकं मनः ॥

 श्रीमदादिकविना श्रीरामादिभिः सह चित्रकूटं नीता वयमपि दूरत एव पश्यामः [१]नभस्स्पृशानि पावनानि चित्रकूटशिखराणि । समीपमुपसर्वतामस्माकं-अदृष्टपूर्वाणां वृक्षलतादीनां विचित्राणि पुष्पाणि, नदीं माल्यवतीं आलिङ्ग्य मन्दं मन्दं वहन् वायुः, नाना-पक्षिमृगाणां मधुराणि रुतानि, बहुविधानां कुसुमानां उत्तमः आमोद, रसमयानि द्रोणप्रमाणानि मधूनि-इतीदं सर्वे यतोऽपहरति करणग्रामं, तत एव इतरसर्वविस्मरणं अवश्यं भाव्येव ॥

 फलपुष्पपूर्णदुमलताऽऽच्छादितः हरितमयः पर्वतः, पार्श्वे चलचलायमाना प्रसन्नसलिला नदी, निर्भरं इतस्ततः क्रीडन्तः वानरहरिणभल्लुकप्रभृतयो मृगाः, स्वैरं गभीरंसञ्चरन्तो मत्ता मातङ्गाः, परमधन्यानां महर्षीणां प्रशान्तानि पुण्यानि आश्रमस्थानानि-


  1. अयो. ५४ सर्गे (२८-३१ श्लोकाः) ५६ सर्गे (६-१५ श्लोकाः) च चित्रकूट-वर्णनं द्रष्टव्यम् ।