पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
122
[अयोध्याकाण्डः
दशरथप्रार्थना

 अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः ।
 पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥ ४७ ॥

 विपक्षे बाधकमाह-अहं हीत्यादि ॥ ४७ ॥

 एकाहमपि पश्येयं यद्यहं राममातरम् |
 अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ ४८ ॥

 अञ्जलिं प्रतिगृह्णन्तीमिति । राजमातृत्वेन स सर्वलोकानामिति शेषः ॥ ४८ ॥

 [१] भरतेनात्मना चाहं शपे ते मनुजाधिप !
 यथा नान्येन तुष्येयं ऋते रामविवासनात् ॥ ४९ ॥
 एतावदुक्त्वा वचनं कैकेयी विरराम ह
 विलपन्तं च राजानं न प्रतिव्याजहार सा ॥ ५० ॥
 श्रुत्वा तु राजा कैकेया वाक्यं [२]परमशोभनम् ।
 रामस्य च वने वासमैश्वर्यं भरतस्य च ॥ ५१ ॥
 नाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेन्द्रियः ।
 प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ ५२ ॥

 प्रैक्षतेति । क्रोधादिति शेषः ॥ ५२ ॥

 तां हि वज्रसमां वाचमाकर्ण्य हृदयच्छिदम् ।
 दुःखशोकमयीं घोरां राजा न सुखितोऽभवत् ॥ ५३ ॥


  1. 'ते-तव समीपे, आत्मना-प्राणभूतेत भरतेन शपे' इति तिलके । एवं सति 'भरतेनात्मना बाहं' इति पाठः । अन्यथा चकारस्यान्यार्थकत्वं वक्तव्यम्
  2. परं,अशोभनमिति पद विभागः