पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२ सर्गः]
123
स तस्या व्यवसायं तु दृष्ट्वा दीनोऽब्रवीत् पुनः

 स देव्या व्यवसायं च [१]घोरं च शपथं कृतम् ।
 ध्यात्वा रामेति निःश्वस्य छिन्नस्तरुरिवापतत् ॥ ५४ ॥

 निःश्वस्येति । अशक्यप्रतिक्रियत्वादिति भावः ॥ ५४ ॥

 नष्टचित्तो यथोन्मत्तो विपरीतो यथाऽऽतुरः ।
 हृततेजा यथा सर्पों बभूव जगतीपतिः ॥ ५५ ॥

 विपरीत इति । त्रिदोषजप्रकृतिवैपरीत्य इत्यर्थः । हृततेजा इति । मन्त्रेणेति शेषः ॥ ५५ ॥

 दीनयाऽऽतुरया वाचा इति होवाच कैकयीम् ।
 अनर्थमिममर्थाभं केन त्वमुपदर्शिता ॥ ५६ ॥
 भूतोपहतचित्तेव ब्रुवन्ती मां न लजसे ।

 न लज्जस इति । पत्युः समक्षमेताहव्यवहारो लोकविगर्हित न इति लज्जारहितेति यावत् ॥ ५६ ॥

 [२]शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा ॥ ५७ ॥
 [३]बालायास्तत्त्विदानीं ते लक्षये विपरीतवत् ।

 शीलस्य पतिपत्नीप्रयुक्तस्वचरित्रस्य विशेषेण असनं- निरसनम् इदानीं क्रियमाणम् पुरा नाभिजानामि-दुश्शीलेति न जानामि ; अपि तु सुशीलामेव जानामि । यदेवं पूर्वं ज्ञातं तत् इदानीमेव,


  1. घोरमिति पूर्वेणान्वेति । तिलके तु–घोरं शपथं-भरतशपथं (भरतेनात्मना वाहं इत्यत्रोक्तं) स्वकृतरामसुकृतादिशपथं वेत्युक्तम्.
  2. शील-वि-असनमिति पदच्छेदो व्याख्यातुरमिमतः । शीलव्यसनं–सद्धृत्तभ्रंशं । 'व्यसनं विपदि भ्रंशे' इत्यमरः-गो. बालाया इति पूर्वार्धेऽन्वेति
  3. इदानीं-प्रौढावस्थायामपि विपरीतबदित्यर्हार्थे वतिः,
    विपरीतार्हं-दुश्शीलार्हं लक्षये-ति.