पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
120
[अयोध्याकाण्डः
दशरथप्रार्थना

 न किमपि प्रतिवचनं शक्यमित्याह-यस्या इत्यादि । प्रसादे-शम्बरमायानिवर्तनलक्षणानुग्रहे सति ॥ पश्चात्–या च प्रच्यावितवीर्यं मामभ्यपालयच्च, तस्याः कैकेय्याः मया मिथ्या कृता-मिथ्याप्रतिज्ञा कृता-इति वक्ष्यसि किम्? नैवं शक्यवादं किलेति शेषः ॥ ४१ ॥

 [१]किल्बिषत्वं [२]नरेन्द्राणां करिष्यसि नराधिप !
 यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥ ४२ ॥

 किल्बिषत्वमिति । मत्वर्थीयाजन्ताद्भावप्रत्ययः, किल्बिषवत्त्वमिति यावत् । नरेन्द्राणामिति । त्वद्वंश्यानामिति शेषः । तवासत्यसंगरत्वे प्राणादिभिरपि पालितसत्यानां त्वद्वंश्यानां अपयशः त्वया संपाद्यत इति ॥ ४२ ॥

 शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ ।
 अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ॥ ४३ ॥

 सत्यपरिपालनशेषतया दुष्करस्यापि प्रतिश्रुतस्य परिपालनं दर्शयति-शैब्य इत्यादि । त्वद्वंश्यः शैब्यः सत्यपरिपालनशेषतया दत्ताभयकपोतरक्षणार्थं तन्मांसार्थिने श्येनाय स्वमांसमेव प्रतिनिधित्वेन ददौ ; न तु कपोतमिति [३]श्येनकपोतीये आख्याने श्रूयते । तथाहि-इन्द्राग्नी श्येनकपोतरूपौ भूत्वा शैब्यौदार्यजिज्ञासया भक्षक-भक्ष्यभावापन्नौ शैब्यसमीपमागतौ । तत्र कपोतोऽभयार्थी शैब्याङ्कं


  1. किल्बिषत्वमिति । अत्र 'किल्बिषं त्वं ' इति क्वचित्-च. पाठो दृश्यते । एतत्पाठे मत्वर्थीयाजन्तात् भावप्रत्ययाश्रयणक्लेशोऽपि नास्ति.
  2. सजातीयेष्वेकेन कृतमपयशः सर्वानपि स्पृशति–'सर्वे राजान एवं विधा' इति-गो.
  3. इदं चाख्यानं महाभारते वनपर्वणि श्रूयते । श्येनकपोतीये-श्येनकपोतयोः विरोधे प्राप्ते इति गोविन्दराजीये ॥