पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२ सर्गः]
121
विषं पीत्वा मरिष्येऽद्य न चेत् दद्या वरद्वयम्

प्रविवेश । तस्मै च सोऽभयं ददौ । ततः श्येनेन 'मद्भक्षणं दैवविहितं त्यज' इत्युक्ते 'नाहं त्यजेयं, अपि तु तत्प्रतिनिधिमांसमेव ददामि'-इत्युक्ते 'तर्हि त्वन्मांसमेव मे प्रयच्छ, नान्यत्' इत्युक्ते स्वमांसमपि[१] सर्वं दत्तवानिति कथा । तथा अलर्कश्च राजर्षिः ब्राह्मणायान्धाय वरं प्रतिश्रुत्य, [२]राजचक्षुषा स्वचक्षु प्रतिसन्धाने पृष्टे, स्वचक्षुषी च दत्तवान् ॥ ४३ ॥

 सागरः समयं कृत्वा न वेलामतिवर्तते ।
 समयं माऽनृतं कार्षीः पूर्ववृत्तमनुस्मरन् ॥ ४४ ॥

 सागरः-समुद्रः देवैः प्रार्थितो वेलानतिलङ्घनाय तत् तेभ्यः प्रतिश्रुत्य न वेलामद्याप्यतिवर्तते । अत्र सागरस्य स्ववंश्यखातत्वेन स्ववंश्यत्वाभिमानादुपन्यासः । यदेवं अतः-समयमित्यादि । पूर्ववृत्तं-शैब्यादिवृत्तम् ॥ ४४ ॥

 स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च ।
 सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ! ॥ ४५ ॥
 [३]भवत्वधर्मो धर्मो वा सत्यं वा यदि वाऽनृतम् ।
 यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥ ४६॥

 सिद्धान्तमाह-भवत्वित्यादि । व्यतिक्रमो नास्तीति-अकरणमित्यर्थः ॥ ४६ ॥


  1. प्रथमं कपोतप्रतिनिधित्वेन तत्तुल्यं स्वमांसं तुलायां निक्षिप्तवान् । तस्मिन्नपर्याप्ते च अन्ततः स्वयमेव तुलामारुरोहेति.
  2. तेन राजा-अर्कः.
  3. सत्यं समीचीनं, अनृतं-असमीचीनं-गो. नन्वियं रत्यर्था मिथ्यैव मे प्रतिज्ञा तादृशकाले मिथ्यावचनस्य शास्त्रानुमतत्वादिति चेत्तत्राह-सत्यमित्यादि-ति.