पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२ सर्गः]
119
इत्येवं विलपन्तं तं कैकेयी पुनरब्रवीत्

 कुर्मि-करोमि, उत्वविकरणप्रत्ययलोपावार्षौ । शरणं-रक्षिका भव । इह-रामाभिषेके अधर्मो मां मा पृशेत् । त्वदनुमत्येति शेषः ॥ ३६ ॥

 इति दुःखाभिसन्तप्तं विलपन्तमचेतनम् ।
 घूर्णमानं महाराजं शोकेन समभिप्लुतम् ॥ ३७ ॥
 पारं शोकार्णवस्याशु प्रार्थयन्तं [१]पुनःपुनः ।
 प्रत्युवाचाथ कैकयी रौद्रा रौद्रतरं वचः ॥ ३८ ॥
 यदि दत्त्वा वरौ राजन् ! पुनः प्रत्यनुतप्यसे ।
 धार्मिकत्वं कथं वीर ! पृथिव्यां [२]कथयिष्यसि ॥ ३९ ॥

 अनुतप्यस इति । निर्वर्तनाशक्त्येति शेषः ॥ ३९ ॥

 यदा समेता बहवः त्वया राजर्षयः सह ।
 [३]कथयिष्यन्ति धर्मज्ञ ! तत्र किं प्रतिवक्ष्यसि ॥ ४० ॥

 यदा पृथिव्यां राजर्षयस्त्वया सह समेता भवन्ति, तदा तत्समाजे त्वं त्वदीयं धार्मिकत्वं कथयिष्यसि; ते च मद्विषयवरदानादिप्रसङ्गं यदा कथयिष्यन्ति, तदा तान् प्रति किं प्रतिवक्ष्यसि ? धर्मज्ञेति व्यङ्योक्तिः ॥ ४० ॥

 यस्याः [४]प्रसादे जीवामि या च मामभ्यपालयत् ।
 तस्याः [५]कृता मया मिथ्या कैकेय्या इति वक्ष्यसि ॥ ४१ ॥


  1. अचेतनम्-ङ.
  2. कथयिष्यसि । लोकैरिति शेषः । स्वार्थण्यन्तात् हेतुमण्णौ रूपम्-ति.
  3. उपकारिण्याः कैकेय्याः किं प्रत्युपकृतमिति यदा कथयिष्यन्ति तदा किं प्रतिवक्ष्यसि-गो.
  4. प्रसादात्, प्रयत्ने-ङ. प्रसादमेवाह-या चेति.
  5. कृतं-ङ.झ.