पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
118
[अयोध्याकाण्डः
दशरथप्रार्थना

 [१]न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः ।
 स कथं त्वत्कृते रामं वक्ष्यामि [२]प्रियमप्रियम् ॥ ३२ ॥

 अप्रियं वाक्यमिति-[३] रामकर्तृकं रामविषयकं वेति शेषः । कुत एवमित्यत आह-प्रियवादिन इति । त्वत्कृते-त्वद्वचनक्रियासंपादनार्थम् । अप्रियं वक्ष्यामीति । निर्निमित्तामति शेषः ॥ ३२ ॥

 क्षमा यस्मिन् तपस्त्यागः सत्यं धर्मः कृतज्ञता ।
 [४]अप्यहिंसा च भूतानां तमृते का गतिर्मम ॥ ३३ ॥
 मम वृद्धस्य कैकेयि ! [५]गतान्तस्य तपस्विनः ।
 दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ ३४ ॥

 गतान्तस्येति । संप्राप्तचरमकालस्येत्यर्थः । तपस्विनः-एवं शोचनीयावस्थस्य ॥ ३४ ॥

 पृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते ।
 तत्सर्वं तव दास्यामि मा च [६]त्वां मन्युराविशेत् ॥ ३५ ॥
 अञ्जलिं कुर्मि कैकेयि ! पादौ चापि स्पृशामि ते ।
 शरणं भव रामस्य [७]माऽधर्मो मामिह स्पृशेत् ॥ ३६ ॥


  1. लोकस्य-लोकं प्रति, प्रियवादिनः स्वस्य के प्रत्यप्युक्तमप्रियं वाक्यं न स्मरामि-सोऽहं त्वत्कृते प्रियं राममप्रियं कथं वक्ष्यामि-ति. न स्मरामि-स्मर्तुमपि न शक्नोमि,
    सः-तादृशोऽहं-गो.
  2. प्रियं राममित्यन्वयः
  3. इदं तिलकेऽनूदितम्
  4. अविहिंसा-ङ.
  5. गतः-प्राप्तः निश्चितो वा अन्तः, चरमकालः यस्य सः
  6. त्वं मृत्युमाविशेः-ङ.त्वं मृत्युमाविश-च.
  7. अधर्मः-प्रतिशाभङ्गरूपः– गो. अधर्मः-ज्यैष्ठ्यातिक्रमकृतः, निरपराधस्य त्यागकृतश्च ति.