पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२ सर्गः]
117
पापमाशंससे रामे देवि ! देवोपमे कथम् ?

 शुश्रूषां [१]गौरवं चैव प्रमाणं वचनक्रियाम् ।
 कस्ते भूयस्तरां कुर्यात् अन्यत्र मनुजर्षभात् ॥ २६ ॥

 प्रमाणं-प्रतिपत्तिः । वचनक्रिया-उक्तकरणम् ॥ २६ ॥

 बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम् ।
 [२]परिवादोऽपवादो वा राघवे नोपपद्यते ॥ २७ ॥

 बहूनां स्त्रीसहस्राणां मध्ये एकयापि कृतः परिवादः, तथोपजीविनां च मध्ये एकेनापि कृतोऽपवादः-अपयशः राघवे नोपपद्यते ॥

 सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा ।
 गृह्णाति मनुजव्याघ्रः [३]प्रियैर्विषयवासिनः ॥ २८ ॥

 कुतो अन्यत्र नोपपद्यत इत्यत्राह-सान्त्वयन्नित्यादि ॥

 सत्येन लोकान् जयति दीनान् दानेन राघवः ।
 गुरून् शुश्रूषया [४]वीरो धनुषा युधि शात्रवान् ॥ २९ ॥

 दानं-पारलौकिकम् । त्यागः-प्रीत्यर्थः ऐहिकप्रयोजनः ॥

 सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् ।
 विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥ ३० ॥
 तस्मिन्नार्जवसंपन्ने देवि ! देवोपमे कथम् ।
 पापमाशंससे रामे महर्षिसमतेजसि ॥ ३१ ॥


  1. गौरवं प्रतिपत्तिः । प्रमाणं-पूजा-गो.
  2. परिवादः-अपयशः, अपवादः-निन्दा-गो.
    परिवादः-समूलमयशः । अपवादः-निर्मूलमयशः-ति.
  3. प्रियैः,अभीष्टदानैः.
  4. वीर इति सर्वत्र संबध्यते । दयावीरः, त्यागवीरः, विद्यावीरः, पराक्रमवीर इत्येवम् । चोलमहीपतिः कदाचित् सन्निहितं मध्यमवीथिभट्टारकं प्रति 'आत्मानं मानुषं मन्ये' इति वदन् रामः कथं जटायुषो मोक्षं दत्तवान् इति पप्रच्छ । सोऽपि 'सत्येन लोकान्' इत्युक्त्या महतीं बहुमतिं अवाप्तवानित्यैतिह्यमत्र ज्ञेयम्-गो.