कुत आविष्टतामूल एवंवाद इत्यत्र, अस्मदुक्तरामाभिषेक-वारणहेतोरेवेत्याह–इक्ष्वाक्कूणामित्यादि । यत्र-यस्मिन् नयसंपन्ने रामे ते यतो विकृता मतिरुत्पन्ना । इतश्च तन्मूलो महानयमनयः-ज्येष्ठे गुणवति ज्येष्ठाभिषेकनिवृत्तिरूपोऽनयः संपाद्यते तस्मादेव ते न श्रद्दधामीति । इदानीं क्रियमाणं विप्रियादिकमपि वास्तवामति न श्रद्दधामीति शेषः ॥ २० ॥
तदेव समर्थयते-नन्वित्यादि । आमन्त्रणे ननुशब्दः । कथयसे स्मेति योजना ॥ २१ ॥
तस्य धर्मात्मनो देवि ! वने वासं यशस्विनः ।
कथं रोचयसे भीरु ! नव वर्षाणि पञ्च च ॥ २२ ॥
तस्येति-तथाप्रियस्येत्यर्थः ॥ २२ ॥ अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः । कथं रोचयसे वासमरण्ये भृशदारुणे ॥ २३ ॥ रोचयस्यभिरामस्य रामस्य शुभलोचने ! तव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥ २४ ॥ रामोऽपि भरताद्भूयः तव शुश्रूषते सदा । विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥ २५ ।। तव शुश्रूषमाणस्येति । 'न लोक' इति षष्ठीनिषेधाभाव आर्षः । तथा 'तव शुश्रूषते' इति षष्ठ्यपि आर्षी ॥ २४-२५ ॥