पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२ सर्गः]
113
चिरेण संज्ञां स प्राप्य कैकेयीमब्रवीद्वचः

 [१][२]यदा ते जननीतुल्यां वृत्तिं वहति राघवः ॥ ८ ॥
 तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता ।

 यदा-यस्मात् ते-तव विषये जननीतुल्यां वृत्तिमावहति; [३]तस्मात् अनर्थचिन्तार्हस्य तस्यैवानर्थाय किंनिमित्तं इह-इदानीं उद्यता ॥ ८ ॥

 त्वं मयाऽऽत्मविनाशाय भवनं स्वं निवेशिता ॥ ९ ॥
 [४]अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा ।

 अयं स्वयंकृतानर्थमूल एवेत्याह-त्वमित्यादि । अविज्ञानादिति इष्टसाधनत्वभ्रान्त्येत्यर्थः ॥ ९ ॥

 [५]जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥ १० ॥
 अपराधं कमुद्दिश्य त्यक्ष्यामष्टिमहं सुतम् ।

 यदा-यस्मात् । उद्दिश्य-व्याजीकृत्य । न त्वेव त्यजेयमित्यनुकर्षः ॥ १० ॥

 कौसल्यां च सुमित्रां च त्यजेयमपि वा श्रियम् ॥ ११ ॥
 जीवितं वाऽऽत्मनो रामं न त्वेव पितृवत्सलम् ।
 परा भवति मे प्रीतिः दृष्ट्वा तनयमग्रजम् ॥ १२ ॥
 अपश्यतस्तु मे रामं नष्टा भवति चेतना ।


  1. सदा-ङ.
  2. यदैव जननीतुल्यां वृत्तिं वहति तदैव तस्यैवानर्थाय किन्निमित्तमुद्यता-गो.
  3. यस्मात्-क.
  4. अत्र नृपसुतेत्यनन्तरमितिकरणं द्रष्टव्यमिति गोविन्दराजीयम् ॥ भवत्स्वभावमविज्ञाय नृपसुतेति मत्वा स्वं भवनं निवेशितेत्यर्थः
  5. जीवलोकः सर्वोऽपि यदा रामं स्तौति-तदा तस्य विवासने मम को वाधिकार इति भावः ॥ यदेत्यनेन रामगुणस्तवस्य भूतपूर्वत्वं नास्तीत्युच्यते ॥