पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
114
[अयोध्याकाण्डः
दशरथप्रार्थना

 तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना ॥ १३ ॥
 न तु रामं विना देहे तिष्टेत्तु मम जीवितम् ।
 तदलं त्यज्यतामेष निश्रयः पापनिश्चये ॥ १४ ॥
 अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ।
 किमिदं चिन्तितं पापे ! त्वया परमदारुणम् ॥ १५ ॥

 तदलमिति । यस्मात् मद्विनाशे ते वैषव्यप्राप्तिः तस्मादित्याशयः । चरणावपीति । त्वत्प्रीत्यर्थमिति शेषः ॥ १५ ॥

 [१]अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये ।
 अस्तु, यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति ॥ १६ ॥
 [२]स च ज्येष्ठसुतः श्रीमान् धर्मज्येष्ठ इतीव मे ।
 त्वया ते प्रियवादिन्या सेवार्थं कथितं भवेत् ॥ १७ ॥
 तच्छ्रुत्वा शोकसंतप्ता संतापयसि मां भृशम् ।
 आविष्टाऽसि गृहे शून्ये सा त्वं परवशं गता ॥ १८ ॥

 अथेत्यादि । अथेति प्रश्ने । भरतोऽभिषिच्यतां-रामो विवास्यतामित्युक्ते, राजा भरतं प्रत्यभिषेकादिरूपं प्रियं वदिष्यति न वेति भरतविषयकप्रियाप्रियविषये मां जिज्ञाससे-परीक्षसेऽथ? अथापि रामो विवास्यतामिति नैतद्युक्तं वक्तुम् । कुतः? यत्-यस्मात्


  1. अथेत्यादिश्लोकत्रयमेकान्वयम्- गो. भरतप्रियाप्रियविषये यदि मां जिज्ञाससे, तदास्तु राघवं-भरतं प्रति यत्त्वया व्याहृतं तत्सर्वं भरतस्य, रामविवासनन्त्वयोग्यमेवेति शेषः-ति. त्वया पूर्वं राघवं प्रति 'स मे ज्येष्ठः सुतः' इत्यादि यत् व्याहृतं, तत् प्रियवादिन्या त्वया, सेवार्थं-मम मनोरञ्जनार्थं-रामकृतशुश्रूषार्थं वा कथितं भवेत्-गो. इतीव–इत्येतत्प्रकारं यत् त्वया कथितं पूर्वं तन्मच्चित्तावर्जनेन सेवार्थमेव–मया
    स्वसेवाकरणार्थमेव भवेत्-ति.
  2. स मे-ङ. च.