पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
112
[अयोध्याकाण्डः
दशरथप्रार्थना

 व्यथितो विक्लबश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ।
 असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् ॥ ४ ॥
 मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः ।
 अहो धिगिति सामर्षः वाचमुक्त्वा नराधिपः ॥ ५ ॥
 मोहमापेदिवान् भूयः शोकोपहतचेतनः ।
 चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः ॥ ६ ॥
 कैकेयीमब्रवीत् क्रुद्धः निर्दहन्निव [१]चेतसा ।

 इति-एवंप्रकारतः तत्-श्रुतार्थं संचिन्त्य नाध्यगच्छत् [२]तदन्यतरत्वं । [३]अतस्तदा वास्तवत्वज्ञानात्, असुखं-परममूर्छाकरं-महद्दुःखं चाध्यगच्छत् । ततः संज्ञां-स्मृतिं प्रतिलभ्य कैकेयी-वाक्यस्मरणताडितः उच्यमानविशेषणकः-'अहो धिक्' इत्युक्त्वा भूयः शोकमापेदिवान्-इति योजना । विक्लवः-दीनः । मण्डल इति । विषस्तम्भनयन्त्रमण्डल इत्यर्थः । चेतसा निर्दहान्निवेत्यनेन [४]व्याघ्री-मृगवत् चक्षुरादिना कोपप्रकाशस्याशक्यता द्योत्यते ॥ ३-६ ॥

 नृशंसे ! दुष्टचारित्रे ! कुलस्यास्य विनाशिनि ! ॥ ७ ॥
 किं कृतं तव रामेण पापे ! पायं मयाऽपि वा ।

 किं पापं-अनिष्टं कृतमिति योजना ॥ ७ ॥


  1. चक्षुषा-ङ.
  2. तदन्यतमत्वं-तदन्यतमसत्वं तदन्यतमतत्वं-इति वा स्यात् ।
  3. अतस्तदवास्तवत्वाज्ञानादिति स्यात् ।
  4. 'व्याघ्रीं दृष्ट्वा यथा मृगः' इत्युक्त्या व्याघ्रथां मृगवदित्यर्थः ।