पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२ सर्गः]
111
तच्छ्रुत्वा वचनं घोरं राजाऽभूद्गतचेतनः

क्षणं; प्रतताप च-भ्रमप्रतीताहिकण्टकाद्यर्थस्य तत्काले किञ्चित्कार्यकारकत्वात्, तत्काले परितापः ॥ १ ॥

 किन्नु मे [१]यदि वा स्वप्नः? चित्तमोहोऽपि वा मम ?
 अनु भूतोपसर्गो वा [२]मनसो वाऽप्युपद्रवः ॥ २ ॥

 अथापि भ्रमत्वनिश्चयात् त्यक्ततापो भ्रमहेतुभेदानेव चिन्तयति-[३]किन्नु म इत्यादि । स्वप्नार्थस्य प्रत्यक्षार्थापेक्षया सर्वार्थासमर्थत्वात् भ्रमत्वम् । अथवा [४]जाग्रत्यपि दुरदृष्टजः चित्तमोहः-वैचित्यं तत्त्वज्ञानासामर्थ्यम् । अनु-पश्चात् । अथवा उपसर्गाणामनेकार्थत्वात् अथवार्थः, अथवा [५] भूतोपसर्गः-महाग्रहजचित्तवैवश्यं वा । अथवा मनस उपद्रवः आधिव्याधिजनितोपप्लवो वा । [६]अन्यः-अनुभूतोपसर्गः-सुषुप्तिः इत्याह । बत !-सुषुप्तौ कुतो विचारप्रसङ्गः । एवमादौ बह्वसङ्गतं ब्रूते। तत्सर्वमस्मदुच्यमानव्याख्यानतः सुमतिसुबोधम् ॥ २ ॥

 [७]इति संचिन्त्य तद्राजा नाध्यगच्छत्तदाऽसुखम् ।
 प्रतिलभ्य [८]ततः संज्ञां कैकेयवाक्यताडितः ॥ ३ ॥


  1. ऽयं दिवा-ङ. च.
  2. मानसो-ङ.
  3. अत्र 'किन्नु मेऽयं दिवा स्वप्नः' इति तिलके पाठः । व्याख्यायि चैवं तत्र स्वप्नोऽपि कदाचित् संवादीत्यतो दिवेति । दिवा स्वप्नो न कदापि संवादीति भावः । अथवा-वस्तुतत्त्वज्ञानासामर्थ्यमनु-पश्चात् जातः चित्तमोहो वा । इति च.
  4. 'जाग्रतोऽपि' इति स्यात्-मम इत्यनुरोधात् । मयीत्यध्याहार्यं वा
  5. अनुभूतोपसर्गः–जन्मान्तरानुभूतानां अर्थानां-उपसर्गः-स्मरणम्-गो. ग्रहावेशकृत-वैक्लव्यमित्यपि कश्चित्
  6. अनुभूतानां पदार्थानामुपसर्गः-नाशः, सुषुप्तिरित्यर्थः-ती.
  7. इत्येवं संचिन्त्य राजा तदा-सुखं शर्म-शान्तिमिति यावत्- नाध्यगच्छत्-न प्राप, भ्रमत्वानिश्चयादिति भावः । व्याख्यारीत्या तु–नाध्यगच्छदिति अस्य प्रथमं कर्मपदाध्याहारः । असुखमध्यगच्छदिति कियावृत्तिश्च । तिलके तु-तत्-भ्रमकारणं-
    इति तत्पदं कर्मवाचकमुक्तम् ॥
  8. चिरात्-ङ.