पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
110
[अयोध्याकाण्डः
दशरथप्रार्थना

 स राजराजो भव सत्यसङ्गरः
  कुलं च शीलं च हि रक्ष जन्म च ।
 परत्र वासे हि वदन्त्यनुत्तमं
  तपोधनाः सत्यवचो हितं नृणाम् ॥ २९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकादशः सर्गः

 इममेवार्थं स्पष्टमुपदिशति-स राजराज इत्यादि । राजराजः-प्रसिद्धः । स त्वं सत्यसङ्गरो भव । तेनैव हेतुना कुलादिकं रक्ष । सत्यसङ्गरत्वमेव स्वजन्मादिरक्षणसाधनमिति कुत इत्यत्राह-परत्रेत्यादि । धरा (२९) मानः सर्गः ॥ २९ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकादशः सर्गः


द्वादशः सर्गः
[दशरथप्रार्थना]

 ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः ।
 [१]चिन्तामभिसमापेद मुहूर्तं प्रतताप च ॥ १ ॥

 अथ सत्यपाशबद्धस्य दशरथस्य घोरशोकः । तत इत्यादि । चिन्तामभिसमापेद इति । श्रुतार्थस्य वास्तवत्वासंभावनया भ्रम इत्येव निश्चित्य 'किंदोषजोऽयं भ्रमः' इति चिन्तां प्राप । मुहूर्तं-


  1. चिन्ताप्रकारः- किं निवत्यादिना, संतापप्रकारः 'इति संचिन्त्य' इत्यादिना च विव्रियत इति-गो.