पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११ सर्गः]
109
वनं गच्छतु रामोऽद्य द्वितीयेन वरेण च

 ततः परमुवाचेदं वरदं काममोहितम् ।
 वरौ यौ मे त्वया देव ! तदा दत्तौ महीपते ! ॥ २३ ॥
 तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ।

 तावद्यैव वक्ष्यामि-‘मे-मम दातव्यवराविमौ' इति वक्ष्यामि । तन्मे वरवरणवचः शृणु ॥ २३ ॥

 योऽभिषेकसमारंभो राघवस्योपकल्पितः ॥ २४ ॥
 अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम् ।

 किन्तदित्यतः-योऽभिषेक इत्यादि । यः कल्पितः अनेनैवेति योजना ॥ २४ ॥

 यो द्वितीयो वरो देव! दत्तः प्रीतेन मे त्वया ॥ २५ ॥
 तदा [१]दैवासुरे युद्धे तस्य कालोऽयमागतः ।
 नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥ २६ ॥
 चीराजिनजटाधारी रामो भवतु तापसः ।
 भरतो भजतामद्य यौवराज्य[२]मकण्टकम् ॥ २७ ॥

 चीरं-वल्कलम् ॥ २७ ॥

 एष मे परमः कामो दत्तमेव वरं वृणे ।
 अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम् ॥ २८ ॥

 दत्तमेव वरं वृण इति । न त्वन्यायेन त्वां निर्बध्नामीदानीम् । न ह्युत्तमर्णेनाधमर्णात् (ऋण) ग्रहणं तस्य तत्काले पीडेत्येतावता न दोष इत्याशयः ॥ २८ ॥


  1. देवासुरे-ङ.च.
  2. रामवनवासवरणस्य फलं सूचयति-अकण्टकमिति ॥